________________
[५५० उल्लासः ]
काव्यप्रकाशः। कथमवनिप दो यनिशातासिधारा दलनगलितमध्नी विद्विषां स्वीकृता श्री। ननु तव "निहतारेरप्यसौ किं न नीता
त्रिदिवमपगता चल्लभा कीतिरेभिः ॥ १३५ ।।। इत्यादौ निन्दास्तुतिवपुषा स्वरूपस्य, पूर्वपश्चाद्भावेन प्रतीतेः 5 कालस्य, शब्दाश्रयत्वेन शब्दशब्दैकदेशतदर्थवर्णसंबधाश्रयत्वेन चाश्रयस्य, शब्दार्थशासनज्ञानेन प्रकरणादिसहायप्रतिभानैमल्यसहितेन तेन चावगम इति निमित्तस्य, बोद्धमात्रविदग्धव्यपदेशयोः प्रतीतिमात्रचमत्कृत्योश्च करणात्कार्यस्य, “गतोऽस्तमर्कः" इत्यादौ प्रदर्शितनयेन संख्यायाः,
कस्स व में होइ रोसो दट्टण पियाए सव्वणं अहरं ।
सभमरपद्मघाइरि वारियवामे सहम इण्डिं ॥ १३६ ॥ वल्लभेति भार्याप्युच्यते। ततो 'मृतैरपि तव वल्लभा स्वर्ग नीता'इति निन्दा वाच्या, स्तुतिश्च व्यङ्गयेति वाच्यव्यङ्गययोः स्वरूपस्य भेदेऽपि ॥ पूर्वेति । पूर्व वाच्यं प्रतीयते, पश्चाद् व्यङ्गयमिति वाच्यव्यङ्गययोः कालस्य भेदेऽपि ॥ 15 शब्दाश्रयत्वेनेति । वाच्यं शब्दकाश्रयं, व्ययं तु शब्दाश्रयं, तदेकदे शाश्रयं, अर्थाश्रयं वर्णरचनाश्रयं च, एष्वपि व्यञ्जकत्वस्य प्रतिपादितत्वाद्, इत्याश्रयस्य भेदे। शब्दार्थशासनज्ञानेन वाच्योऽर्थोऽवगम्यते, व्यायश्च प्रकरणवक्त्रादिसहायं यत्पतिमानैर्मल्यं तत्सहितेन तेन शब्दार्थशासनज्ञानेनेति वाच्यव्यङ्ग्ययोनिमित्तस्य कारणस्य भेदेऽपि । यदुक्तम्-
20 शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते ।
वेद्यते स हि काव्यार्थतत्त्वज्ञैरेव केवलम् ।। बोद्धमात्रेति । वाच्यबोद्धा बोदेवोच्यते, व्यङ्ग्यबोद्धा तु विदग्ध इति । तथा वाच्योऽर्थः प्रतीतिमात्रकारी, व्यायश्च चमत्कारकारीति वाच्यव्यङ्ग्ययोः कार्यस्य भेदेऽपि ॥
25 . संख्याया इति । वाच्योऽर्थस्तावदेक एच व्यङ्ग्यश्च प्रकरणादिविशेषसहायतया अनेक इति वाच्यव्यङ्गथयोः संख्याया भेदेऽपि विषयभेदादपि न्यायस्य वाच्याद् मेदं दर्शयति-कस्स वेति । 'कस्येव अनीालोरपि न भवति रोषो विलोक्य प्रियायाः सव्रणमधरम् । सभ्रमरपद्माघ्राणशीले। शीलं हि