________________
१०२
5
काव्यादर्शनामसंकेतसमेतः [५५० उल्लासः ] . यदि च वाच्यवाचकत्वव्यतिरेकेण व्यङ्ग्यव्यञ्जकभावो नाभ्युपेयते तदाऽसाधुत्वादीनां नित्यदोषत्वं कष्टत्वादीनामनित्य दोषत्वमिति विभागकरणमनुपपन्नं स्यात् , न चानुपपन्नम् । सर्वस्यव विभक्ततया प्रतिभासात् । वाच्यवाचकताव्यतिरेकेण व्यायव्यमकताश्रयणे तु व्यङ्ग्यस्य बहुविधत्वात्कचिदेव कस्य. चिदेवौचित्येनोपपद्यत एव विभागव्यवस्था।
" द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः" इत्यादौ पिनाक्यादिपदवलक्षण्येन किमिति कपाल्यादिपदानां काव्यानुगुणत्वम् । अपि च वाच्योऽर्थः सर्वान्प्रतिपत्तन्प्रत्येकरूप एवेति नियतोऽसौ। न हि “गतोऽस्तमः" इत्यादौ वाच्योऽर्थः कचिदन्यथा भवति । प्रतीयमानस्तु तत्तत्मकरणवत्तपतिपत्रादिविशेषसहायतया नानात्वं भजते । तथा च "गतोऽस्तमर्कः" इत्यतः संपत्तं प्रत्यवस्कन्दनावसर इति, अभिसरणमुपक्रम्यतामिति, प्राप्तमायस्ते प्रेयानिति, कर्मकरणानिवर्तामह इति, सांध्यो विधि रुपक्रम्यतामिति, दूरं मा गा इति, सुरभयो गृहं प्रवेश्यन्तामिति, संतापोऽधुना न भवतीति, विक्रेयवस्तूनि संहियन्तामिति, नाग तोऽद्यापि प्रेयान् , इत्यादिरनवधिव्यङ्गयोऽर्थस्तत्र तत्र प्रतिभाति ।
वाच्यव्यङ्गययोः, 'निःशेष 'इत्यादौ निषेधविध्यात्मना, मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु । सेव्या नितम्बाः किमु भूधरीणां किमु स्मरस्मेरविलोकिनीनाम् ।।१३४॥ 20 इत्यादौ संशयशान्तशृङ्गार्यन्यैतमनिश्चयरूपेण,
असाधुत्वादीनामिति । च्युतसंस्काराणां दुष्टत्वमेव ।। कष्टत्वादीनामिति । 'अधाक्षीद्, अक्षौत्सीद्, अतृणेक्षि' इत्यादीनां श्रुतिदुष्टानाम् । तेषां हि शृङ्गारशान्ताद्भुतादौ वर्जनाद् बीभत्सवीररौद्रादौ चाभ्युपगमाद् अनित्यत्वं च दोषत्वं च वक्ष्यते । ते हि व्यङ्गये शृङ्गारादौ हेया । न वाच्ये अर्थमात्रे, न 25 च व्यायेऽपि शृङ्गारादिव्यतिरिक्ते ॥
पुनर्वाच्यव्यङ्गययोर्भेदं दर्शयन्नन्विताभिधानवादिनां दोषमाह-अपि चेति ।।
निषेधविध्यात्मनेति, स्वरूपस्याभेदेऽपीति योगः । निषेधो वाच्यो विधिश्च व्यायः । संशयश्च शान्तशृङ्गार्यन्यतरनिश्चयश्च, तत्र संशयो वाच्योऽन्यतरनिश्चयश्च व्यङ्गय इति स्वरूपस्य भेदः ॥
30