________________
[ ६ प० उल्लासः ]
काव्यप्रकाशः ।
पूर्वपूर्ववलीयस्त्वम् । इत्यन्विताभिधानवादेऽपि "विधेरपि सिद्धं व्यङ्गत्वम् । किं च कुरु रुचिमिति पदयोर्वैपरीत्ये काव्यान्तवर्तिनि कथं दुष्टत्वम् । न ह्यत्राभ्योऽर्थः पदार्थान्तरैरन्वित इत्यनभिधेय एवेत्येवमाद्यपरित्याज्यं स्यात् ।
१०१
क्रियाङ्गभावो गम्यते । यथा वा 6 अरुणया एकहायन्या पिङ्गाक्ष्या सोमं 5 क्रीणाति' इत्यत्र अरुणादीनां क्रमेण संबन्धः श्रौतः । अरुणैकहायन्यादीनां परस्परं पुनर्वाक्यीयम् ॥
,
दर्शपौर्णमासप्रकरणे ' समिधो यजति तनूनपातं यजति इडो यजति बर्हिर्यजति स्वाहाकारं यजति ' इति पश्च प्रयाजा उक्ताः, ते च दर्शपौर्णमासयोरेव क्रियते । तदङ्गत्वमवगम्यत इत्यर्थः ॥
"
'अग्निरन्नस्यानपतिस्तस्याहं देवयज्ययान्नस्यान्नपतिर्भूयासम् १ 'दुधिरस्यदर्थो भूयासं तदमुं दभेयम् २
• अग्नीषोमो वृत्रहणौ तयोर्देवयज्यया वृत्रहा भूयासम् ३ ' इति मन्त्रत्रयात् आग्नेयो याग उपांशुयाज आग्नीषोमीयो यागश्चेति यागत्रयं क्रमेण स्थितम् । तत्र प्रथमतृतीयमन्त्राभ्यां देवयज्यालक्षणालिङ्गाद् आद्यन्तौ 15 या आक्षिप्येते, द्वितीयेन मन्त्रेण द्वितीयों यागस्तु, आग्नीषोमीयलक्षण उपांशुयाजः स्फुरदोष्ठमुद्रस्वरः स्थानवशात् ॥ ' उद्गाताऽध्वर्युता ' इति । उद्गायतीत्यादिसमाख्ययाऽन्वर्थ संज्ञाबलात् सामयजुर्ऋग्वेदेष्वधिकृत इति निश्चीयते तेष्वङ्गभाव इत्यर्थः । श्रुतिलिङ्गादिविकल्प संभवे तु श्रुत्यर्थ एव क्रियते, न लिङ्गाद्यर्थोऽर्थविप्रकर्षात्, यथा 'ऐन्या गार्हपत्यमुपतिष्ठते ' इत्यत्रै - 20 वैन्या ऋच इन्द्रप्रकाशनसामर्थ्यलक्षणा लिङ्गाद् इन्द्रोपस्थापनविनियोगो गाईपत्यमिति द्वितीयया श्रुत्या बाध्यते, तेन ऐन्द्याप्येतया गार्हपत्यस्यैवोपस्थानं भवति ॥ श्रुत्यादयश्च केचित् समस्ताः क्वचिद् व्यस्ता एव विनियोजयन्ति ॥
समस्ता यथा
अनेन कल्याणि करे गृहीते महाकुलीनेन महीव गुर्वीं । रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः ॥
विधेरपीति । योऽयं विधिः सर्वैर्वाच्य एवेत्यभ्युपगतस्तस्यापीत्यर्थः ॥ वैपरीत्य इति । क्रमव्यत्यासे चिङ्कुरिति स्मरमन्दिरान्तर्वर्तिइत्यादि ।
पुनरन्विताभिधानवादिनं दूषयति - किचेति । 'रुचिङ्कुरु' इत्येवंलक्षणे । असभ्योऽर्थ इति । मणिसंस्मारकमसभ्यम् ।। एवमादीति, ' रुचिकुरु'
10
25
30