________________
काव्यादर्शनामसंकेतसमेतः [५ प० उल्लास. पदार्थान्तरमात्रेणान्वितस्त्वन्विताभिधाने । अन्वितविशेषस्त्ववाच्य एवेत्युभयनयेऽप्यपदार्थ एव वाक्याथः। __ यदप्युच्यते नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्त इति, तत्र निमित्तत्वं कारकत्वं शापकत्वं वा । शब्दस्य प्रकाशकत्वान कारकत्वम् । ज्ञापकत्वं त्वज्ञातस्य कथम् । ज्ञातत्वं च संकेतेनैव । स चान्वितमात्रे । एवं च निमित्तस्य नियतनिमित्तत्वं यावन निश्चितं ताचन्नैमित्तिकस्य प्रतीतिरेव कथम् । इति नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्त इत्यविचारिताभिधानम् ।।
ये त्वभिदधति सोऽयमिषोरिव “दीर्घदीर्घतरो व्यापार इति, यत्परः शब्दः स शब्दार्थ इति च विधिरेवात्र वाच्य इति, 10 "तेऽप्यतात्पर्यज्ञास्तात्पर्यवाचोयुक्तेर्देवानांमियाः । तथा हि ।
भूतभव्यसमुधारणे भूतं भव्यायोपदिश्यत इति कारकपदार्थाः इति ॥ अन्वितविशेषस्त्विति। वाक्यार्थस्तु अपदार्थ एवेति योगः। कीदृशो वाक्यार्थोऽन्वितविशेषः । अन्वितविशेषो यत्र स तथा, समग्राङ्गसंपूर्ण इत्यर्थः। ... यतोऽवाच्यस्ततः पक्षद्वयेऽप्यपदार्थ एव वाक्यार्थः ॥
___ यदपीति । अन्विताभिधानवादिभिरेव प्राभाकरैः । नैमित्तिकार्थेति । वाक्यार्थतात्पर्यानुसारेण निमित्तानि पदार्थाः करप्यन्ते, ततो नैमिचिक्र एवायं न व्यङ्गय इति भावस्तेषाम् ॥ अन्वितमात्र इति । सामान्यावच्छादितविशेषरूपे ॥ एवं चेति। निमित्तेषु संकेत इति, नैमित्तिकेऽर्थ संकेताकरणात् कथं तस्य साक्षात्पतिपत्तिः, तस्मिश्चाप्रतिपने कथं पदार्थावगमानां नियतनिमित्तभावः । ततोन किंचि- 20 देतत् ।। इषोरिवेति । यथा इपुरुरश्छदमुरश्च मित्चा जीवितं गृहाति, न च प्रवृत्तिभेदः कश्चित् , तथा शब्दस्याभिधाव्यापार एवैकः स्वार्थमर्थान्तरं च गमयतीति न व्यापारभेदः॥ यत्पर इति। अभिधा हि यत्पर्यन्ता तत्रैवाभिधायकत्वमुचितम् । तत्पर्यन्तता च प्रधानीभूते व्यङ्गय इति ध्वनेयन्निरूपितं रूपं तत्रैव अभिधाव्यापारेण भवितुं युक्तम् । ततो व्यङ्ग्यस्य विधेः प्राधान्ये वाच्यत्वमेव न्याय्य- 52 मिति तात्पर्यवादिनः ॥ तदपि नैवेत्याह-तदतात्पर्यज्ञा इति । यत्परः शब्दः स शब्दार्य इत्यस्य अभिमायं न बुध्यन्त इत्यर्थः ॥ एतदेव व्याचष्टे-तथा होति ॥ भूतभव्येति । प्रमाणान्तराद् अषमतम् , अत एव भूतं सिद्धम् । प्रमाणान्तराद् असिद्धं तु भवतीति भव्यगे 'य' इति निपाते भव्यं यत्साध्यम् || कारकपदार्था इति । यथा 'देवदत्तः काष्ठैः स्थाल्यामोदनं पचति' इत्यादौ ओदनपाकश्वेद- 30