SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ [ ५ प० उल्लासः ] काव्यप्रकाशः । 6 क्रियापदार्थेनान्वीयमानाः प्रधनक्रियानिर्वर्तस्व क्रियाभिसंबन्धात्साध्यायमानतां प्राप्नुवन्ति । ततश्चादग्धदहनन्यायेन यावद - प्राप्तं तावद्विधीयते । यथा-ऋत्विक्प्रचरणे प्रमाणन्तरासिद्धे 'लोहितोष्णीषा ऋत्विजः प्रचरन्ति ' इत्यत्र लोडितोष्णीषत्वमात्रं विधेयम् । हवनस्यान्यतः सिद्धेर्दध्ना जुहोतीत्यादौ दध्यादेः करणत्वमात्रं विधेयम् । कचिदुभयविधिः । कचित् त्रिविधिरपि । यथा रक्तं पटं वयेत्यादावेक विधिर्द्विविधिस्त्रिविधिर्वा । ततश्च यदेव विधेयं तत्रैव तात्पर्यमित्युपात्तस्यैव शब्दस्यार्थे तात्पर्य न तु प्रतीतमात्रे । एवं हि पूर्वी धावतीत्यादावपराधैर्थेऽपि कचित्तात्पर्य स्यात् । यत्तु विषं क्षय मा चास्य गृहे भुया इत्यत्रैतद्गृहे न भोक्तव्यमित्यत्र तात्पर्यमिति स एव वाक्यार्थ इति । उच्यतेतत्र चकार एकवाक्यता सूचनार्थः । न चाख्यातवाक्ययोर्द्वयोरब्राङ्गिभाव इति विषभक्षणवाक्यस्यै सुहृद्वाक्यत्वेनाङ्गता कल्पनीन्यतः सिद्धस्तदा स्थाल्यधिकरणत्वमात्रं विधेयं तस्यैव साध्यत्वात् ॥ स्वयेति । लोहितोष्णीषत्वविधानादिकाः क्रियाः ॥ साध्यायमानता मिति साध्य- 15 स्वरूपताम् || लोहितोष्णीषत्वमात्रमिति । तद्धि एकं सर्वैः कारकैः साध्यते ॥ करणत्वमात्रमिति । अनयोरुदाहरणयोरेकमेव वस्तु विधेयं, न तु द्वयमपीति मात्रशब्दस्यार्थः ।। एकविधिरिति । रक्तत्वं वानं च चेद् अन्यतः सिद्धं तदा पटमिति विधीयते । वानं च पटमिति च सिद्धं चेत् तदा रक्तत्वमात्रं विधेयम् । पटभवनं हि भव्याय साध्याय रक्ततावगमनायोपदिष्टमिति रक्ततावगमनपरत्वं वाक्य- 20 स्येत्यर्थः। क्वचित्तु रक्तत्वं पटत्वं च द्वयं विधेयम् । कचित्तु साक्षाच्छब्देनैव त्रयं विधेयम् ॥ उपात्तस्यैवेति । उक्तस्यैव शब्दस्य संबन्धिन्यर्थेऽभिधेये तात्पर्य, न तु निमित्तान्तरेण प्रतीतमात्रे व्यङ्गयेऽप्यर्थे तात्पर्यावकाशः | अपराद्यर्थेऽपीति । पूर्वशब्दस्य सापेक्षशब्दत्वाद् अपराद्यर्थोऽपि प्रतीयत इति तत्रापि तात्पर्य स्यात् ; न चैतद् वाक्यद्वयमित्याह - चकार इति । तथा हि जैमिनि:विभागे सति साकाङ्क्ष चेद् भवेत् तत एकं वाक्यमर्थैकत्वात् । 1 25 यदि तु विभागो निराकाङ्क्षौ ( ? क्षः) तदा द्वे वाक्ये अर्थद्वयवत्त्वात् ॥ अङ्गाङ्गिभाव इतिना उपकारकोपकार्यत्वम् || विषभक्षणादपीति । न हि मित्रादौ हितमिच्छुः कोऽपि भोजननिषेधं कुर्वाणोऽकस्माद् विषभक्षणमनुजानातीत्यवगतवक्तृप्रकरणादिस्वरूपः प्रतिपत्त्या विषभक्षणानुज्ञानादेतद् गृहभोजनस्यात्यन्त- 30 5 10
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy