________________
[५९ उल्लासः ]
कायमकस्याः ।
नामेव संकेतो गृह्यत इति विशिष्टा एव पदार्था वाक्यार्थो न तु पदार्थानां वैशिष्ट्यम् । यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञा प्रत्ययनेन तान्येवैतानि पदानि निश्रीयन्त इति पदार्थातरमात्रेणान्वितः पदार्थः संकेतगोचरस्तथापि सामान्यावच्छादितो विशेषरूप एवासौ प्रतिपद्यते, व्यतिषक्तानां पदार्थानां तथाभूतस्वादित्यन्विताभिधानवादिनः । तेषामपि मते सामान्यविशेषरूपः पदार्थ : संकेतविषय इत्यतिविशेषभूतो वाक्यार्थान्तर्गतोऽसंकेतितत्वादवाच्य एव यत्र पदार्थः प्रतिप्रद्यते तत्र दूरेऽर्थान्तरभूतस्य 'निःशेषच्युत' इत्यादौ विध्यादेवच । अनन्वितोऽर्थोऽभिहितान्वये । विशिष्ट एवार्थे पदानां संबन्धावसायः ।। वाक्यमेवेति । अनन्वितार्थ पदमप्रयोज्य - 10 मिति प्रयोगयोग्यं वाक्यमेव, तत्रैव संकेतो गृहात इत्यपरपदार्थान्वित एव पदार्थ : संकेतगोचरः । बालो हि व्युत्पाद्यमानः प्रयोज्यदृद्धस्य शब्दश्रवणसमनन्तरभाविनीं विशिष्टचेष्टानुमितां शब्दकारिकां प्रतीतिमन्वितार्थविषयाम
छवि अपदानामभिधानसामर्थ्यमवधारयतीत्याह-विशिष्टा एवेति । अन्वितानां विशिष्टानामेव पदार्थानामभिधेयत्वम् । वाक्यार्थो हि क्रियाकारक- 15 संसर्गरूपः । कारकाणां च क्रियासंबन्धोन्मुखतया क्रियाणामपि कारकविरासहिष्णुत्वेन अन्वितानामेव स्वशब्दैरभिधानं भवतीत्यर्थः ।। न तु पदार्थानामिति । सामान्यभूतत्वेन अभिहितानां पदार्थानां पञ्चान वैशिष्ट्यमित्यर्थः ॥ यद्यपीति । संकेतगोचर इति योगः ॥ तान्येवैतानीति । यानि वाक्यान्तरे दृष्टप्रयोगाणि || व्यतिषिक्तानामिति । वाक्यस्यैव प्रयोगाईत्वात् पदार्थान्तरैरन्वितानाम् । तथाभूतत्वादिति । सामान्यावच्छादित विशेषरूपत्वात् । सामान्यविशेषरूप इति । सामान्यानि अन्तःकृताशेषविशेषाणि भवन्तीति तत्प्रतीतिनान्तरीयकतयैव विशेषसद्भावः । यदाहुः
20
निर्विशेषं न सामान्यं भवेच्छशविषाणवत् ॥
ततः सामान्यावच्छादितो विशेष एव संकेतस्य विषयः । ततश्च 52 सामान्यभूतः प्रदार्थोऽसमितत्वाद् अनभिधेय इत्याह अतिविशेषभूत इति । विशेनमतिक्रान्तोऽतिविशेषः, तं भूतः प्राप्तोऽतिविशेषभूतः सामान्यः पदार्थः । यत्र तु सामान्यरूपोऽपि पदार्थो न वाच्यस्तत्र कै कथा व्यस्य विध्यादेरर्थान्तरस्य वाच्यतायाम् । एवं संक्रळय्य पक्षद्वयेऽपि सिद्धान्तमाह-अनन्वितोsर्थ
१३
९७
5