________________
काव्यावर्शनामसंकेतसमेतः [५५० उल्लासः ] वेऽप्याहुः।
शब्दवद्धाभिधेयांश्च प्रत्यक्षेणार पश्यति । श्रोतुश्च पतिपत्नत्वमनुमानेन चेष्टया ॥ अन्यथानुपपत्त्या तु बाधेच्छक्ति द्वयात्मिकाम् ।
अर्थापत्यै बुध्यन्ते संवन्धं त्रिप्रमाणकम् ॥ इति प्रतिपादितदिशा 'देवदत्त गामानेय'इत्याधुत्तमवृद्धवाक्य. प्रयोगे देशोदेशान्तरं सास्नादिमन्तमर्थ मध्यमद्धे यति सत्यनेना स्माद्वाक्यादेवंविधोऽर्थः प्रतिपन्न इति तच्चेष्टयानुमाय तयोरखण्डवाक्यधाक्यार्थयोपिया वाच्यवाचकमावलॆक्षणसंबन्धमवधार्य बालस्तत्र व्युत्पद्यते। परतः चैत्र गामानय', 'देवदत्ताश्चमौनय' 10 . . 'देवदत्त गां नय'इत्यादिवाक्यप्रयोगे तस्य तस्य शब्दस्य तं। तमर्थमवधारयतीत्यन्वयव्यतिरेकाभ्यां प्रवृत्तिनिवृत्तिकारि वाक्य
मेव प्रयोगयोग्यमिति वाक्यस्थितानामेव पदानामन्वितैः पदार्थवाक्यार्थोऽपि यत्र अपदार्थोऽनभिधेयस्तत्र अभिहितानां पदार्थानामुत्तरकालमन्वयं परस्परानुकूल्यलक्षणं वदतां मते व्यङ्गयोऽर्थोऽनभिधेय एष ॥ 15
येऽपि इत्यन्विताभिधानवादिनः ॥ शब्देति । शब्दाश्च वृद्धाश्थाभिधेयानि च । वृद्धेषु व्यवहारमाणेषु किंचिद् व्युत्पन्नाः पार्श्वस्थाः शब्दं तावद श्रोत्रप्रत्यक्षेण प्रतिपद्यन्ते। दो व्यवहरमाणावभिधेयं च घटाद्यर्थम् । चक्षुषा ततः श्रोतुर्वृद्धस्य मतिपनत्वमर्थानयनादिलक्षणचेष्टाहेतुकानुमानेनावगच्छन्ति । ततो वृद्धबुद्धयन्यथानुपपत्त्या शब्दे प्रतिपादिकां शक्तिमर्थे च प्रतिपाद्यामित्येवं 20 त्रिप्रमाणं संबन्धमर्थापत्त्यैवावबुध्यन्ते । साक्षाच्छक्तिविषयत्वेन हि व्यापाराद अर्थापत्तेः कारणता पूर्वयोस्त्विति कर्तव्यतारूपतेत्यमिमायः ॥ तच्चेष्टयेति । मध्यमवृद्धचेष्टया ॥ तत्रेति । वाक्यवाक्यार्थविषये। व्यवहाँगतयोः शब्दपयोगार्थप्रतिपत्त्योरविभक्तो देशवाक्यवाक्यार्थनिष्ठतया पूर्व हेतुफलभावावसायो भवतीत्यर्थः ॥ परत इति तदनन्तरम् । 'देवदत्ताधमानय 'इत्यत्र चैत्रस्योद्वापो 2g देवदत्तस्यावापो, गोरुद्वापोऽश्वस्यावापः। 'देवदत्त गां नय' इत्यत्र तु आनयमनयनक्रिययोरुद्वापावापौ ॥ अन्वयव्यतिरेकाम्यामिति । पदानां संकेतो गृह्यत इति योगः ॥ प्रवृत्ति[निवृत्ति]कारीति । वृद्धव्यवहाराच्छब्दार्थसंबन्धावसायः । स च वृद्धव्यवहारः प्रवृत्तिनिवृत्तिरूपः । प्रवृचिनिवृत्ती च विशिष्टार्थनिष्ठे, अतो