________________
[५ ५० उल्लासः ] काव्यप्रकाशः।
धानद्वारेणैव प्रतीयत इति निश्चीयते। तेनासौ व्यङ्ग्य एव । मुख्यार्थवाधाधभावान पुनर्लक्षणीयः। अर्थान्तरसंक्रमितात्यन्ततिरस्कृताच्ययोस्तु वस्तुमात्ररूपं व्यायं विना लक्षणैव न भवतीति प्राक्प्रतिपादितम् ।
शब्दशक्तिले त्वमिधाया नियन्त्रणेनानभिधेयस्यार्थान्तरस्य, तेन सहोपमादेरलंकारस्य निर्विवाद व्यङ्ग्यत्वम् । अर्थशक्तिर्मूलेऽपि, विशेषे संकेतः कर्तुं न युज्यत इति सामान्यरूपाणां पदा
र्थानामाकाङ्क्षासंनिधियोग्यतावशात्परस्परसंसर्गे यत्रापदार्थोऽपि विशेषरूपो वाक्यार्थस्तत्राभिहितान्वयवादे का वार्ता व्यङ्ग्यस्या
मिधेयतायाम् । प्रतीतिः । यतश्च स्वाभिधानमात्रात् केवलाद् रसादेरप्रतीतिः, रसङ्गाराधभिधानं विनापि केवलेभ्यो विभावादिभ्यः प्रतीतिश्चेत्यन्वयव्यतिरेकाभ्यां न कथंचिद अभिधेयत्वं रसादीनामिति । तृतीयोऽपि भेदो वाच्याद् दूरं भिन्नः॥ प्रतीयत इति । प्रतीतिविषय इत्यर्थः । एतेन संवेदनसिद्धत्वमुक्तम् ॥ तर्हि रसादिलक्ष्य एवास्त्वित्याह-मुख्याति ।। न हि विभावानुमावादौ मुख्येऽथ 15 बाधास्ति, येन लक्षणा स्यात् । काव्यात्मकशब्दनिष्पीडनेनैव रसचर्वणादर्शनात् । अत एवालक्ष्यक्रमो रसादिः। अविवक्षितवाच्येऽपि ' त्वामस्मि वच्मि' इत्यादौ वस्तुमात्र व्यङ्गय, न लक्ष्यमित्याह-अर्थान्तरेति ॥ प्राक्प्रतिपादितमिति । 'सहिता तु प्रयोजने' इत्यादी लक्षणा घमुख्यार्थविषयो व्यापारो, ध्वननं च प्रयोजनविषयम् । ततो मुख्यार्थवाधादिसामग्रीमनपेक्ष्यैव व्यङ्ग्या 20 र्थविश्रान्तिरिति वस्तुनोऽपि व्यङ्गयस्य न लक्ष्यत्वम् ।
शब्दशक्तिमूले विति। शब्दशक्तिमूलानुरणनरूपव्यङ्गये ध्वनौ 'गावो वः पावनानाम्'इत्यादौ प्रकरणनैयत्येन अनभिधेयस्य सुरभिलक्षणस्यार्थान्तरस्य व्याय त्वम् । तेन सहोपमावाचकपदविरहेऽप्युपमाप्रतीतिश्च ॥ न युज्यत इति । समयो हि तावत्येव, न विशेषांशे आनन्त्याद् व्यभिचाराच एकस्य ॥ सामान्यरूपाणामिति । 25 सामान्यभूतस्वार्थमात्र विश्रान्तानाम् । यदुक्तम्-'सामान्ये हि पदं वर्तते, विशेषे वाक्यम् 'इति ॥ संसर्ग इति । विशेषणविशेष्यमावलक्षणे परस्परानुकूल्येऽन्वये ।। अपदार्थोऽपीति, अनभिधेय इत्यर्थः ॥ विशेषरूप इति । 'सामान्यानि अन्यथासिद्धेविशेषं गमयन्ति हि' इति न्यायात् । अपि-शब्दो भिन्नक्रमे । ततो