________________
काव्यादर्शनामसंकेतसमेतः [५ ५० उल्लासः ] अन्योन्ययोगादेवं स्याद्भेदसंख्यातिभूयसी ॥ ४७ ॥ एवमनेन प्रकारेणावान्तरभेदगणनेऽतिप्रभूततरा गणना। तथा हि । भृङ्गारस्यैव भेदमभेदगणनायामानन्त्य, का गणना हुँ सर्वेपाम् । संकलनेन पुनरस्य ध्वनेखयो भेदाः । व्यङ्गयस्य त्रिरूपत्वात् । तथा हि । किंचिद्वाच्यतां सहते किंचित्चन्यथा। तत्र वाच्यतासहमविचित्रमिति वस्तुमात्रम् । विचित्रं त्वलंकाररूपम् । यद्यपि प्राधान्येन तदलकार्य तथापि ब्रामणश्रमणन्यायेन तथोच्यते । रसादिलक्षणस्त्वर्थः स्वप्नेऽपि न वाच्यः । स हि रसादिशब्देन शारादिशब्देन वाभिधीयेत । न चाभिधीयते । तत्पयोगेऽपि विभावाद्यपयोगे तस्यापतिपत्तेस्तदप्रयोगेऽपि विभा- 10
वादिप्रयोगे तस्य प्रतिपत्तेथेत्यन्वयव्यतिरेकाभ्यां विभावाभिमियोऽपि संभोगप्रार्थनार्थ चाटूनि करोति । अङ्गेषु चातुःषष्टिकप्रयोगेष्वनुकूलः ।। अत्र मैत्रीपदं विवक्षितवाच्यो ध्वनिः, पदान्तरेषु चोत्प्रेक्षादिः। वाच्यालंकारसंकीर्णवं चालक्षक्रमव्यङ्ग्यापेक्षया रसवति सालंकारे काव्ये सर्वत्रैव ॥
न केवलं ध्वनेः स्वप्रमेदादिभिः संसृष्टिसंकरौ यावत्तेषामन्योन्यमपीत्याह 15 -अन्योन्ययोगादिति ॥ त्रिरूपत्वादिति । वस्त्वलंकाररसादिरूपत्वात् ॥ किंचिदिति व्यङ्गन्यम् ।। अन्यथेति । वाच्यतां न सहते । वाच्यत्वस्पक्षिमो रसादिः ।। वाच्यतासहमिति । अविचित्रविचित्रात्मतया द्विधा । द्वयमपि शब्दार्थाभिधान योग्यम् । वस्त्वलंकारयोर्वाच्यतायां योग्यतास्तीत्यर्थः, केवलं वाच्यत्वात् । व्यङ्गथमत्यन्तं मिन्नम् ।। वस्तुमात्रमिति । मात्रग्रहणेनैतदाह ' यथा विधिनिषेध- 20 तदुभयात्मतारूपेणं वस्तुध्वनिः संक्षेपेण सुवचस्तथा न अलंकारध्वनिरलं. काराणां भूयस्त्वात् ॥
ननु यदालंकारो व्यङ्गयस्तदा तस्यालंकार्यत्वात् कथमलंकारध्वनिरित्याशङ्कयाह-यद्यपीति । तथेति अलंकारध्वनिः ॥ रसादिलक्षणस्त्विति । तु-शब्दो व्यतिरेके । वस्त्वलंकारौ तावच्छब्दाभिधेयत्वमध्यासाते । रसभावतदामास- 25 तत्पशमाः पुनर्न कदाचिद् अभिधीयन्ते, अथ चास्वाधमानमाणतया भान्ति । तत्र ध्वननव्यापाराद् ऋते नास्ति कल्पनान्तरम् । एतदेव स्फुटयन्नाह-सहीति । रसभावादिशब्दसहिते वा काव्ये 'शृङ्गारी गिरिजानने ' इत्यादौ । केवलशृङ्गारहास्यादिशब्दमात्रभाजि वा विभावादिप्रतिपादनरहिते न मनागपि रसत्व