________________
[ ५५० उल्लासः ]
काव्यप्रकायाः +
"
विच्छिने स्मरतल्पकल्पनमृदुच्छेदोपयोगेऽधुना ते जाने जरठीभवन्ति विगलन्नीतत्विषः पल्लवाः
5
'ये ममैव चित्तस्था ये गोपीनां च नर्मसचित्राः । प्रच्छन्नानुरागिणीनां हि नान्यो नर्मसुहृद् भवति, राधा च नितरां प्रेमस्थानम् ' इत्याह--' राधासंभोगानां ये साक्षाद् द्रष्टारस्तेषां यमुनातीरे लतागृहाणां कुशलम् ' इति काक्वा प्रश्नः । एवं तं दृष्ट्वा गोपदर्शनप्रबुद्धसंस्कार आलम्बनोद्दीपन विभावस्मरणात् प्रबुद्धरविभावो द्वारकागतः कृष्णः स्वगतमौत्सुक्यगर्भमाह - ' स्मरतल्पे ' वि । 'स्मरशय्या कल्पनार्थ मृदु सुकुमारं कृत्वा यछेदत्रोटनं स एव साफल्यं तस्मिन् विच्छिन्ने मयि अनसीने का स्मरतल्पकल्पना' इति भावः । अत एवान्योन्यानुराग निश्चयगर्भमेवाह - 'जाने' इति । वाक्यार्थस्यात्र कर्मत्वम् । 'अधुना 10 जरठीभवन्ति, मयि तु संनिहितेऽनवरतो तोपयोगाद् न इमां जराजीर्णतामापु रित्यर्थः । विगलन्ती नीला विड् येषाम् । अनेन अचिरकालमोषितस्याप्यौत्सुक्यं ध्वनितम् ॥ अत्र सुहच्छन्दे साक्षिशब्दे च अविवक्षितवाक्योर्ध्वनिभेदः । ते ' ' जाने ' इत्येते च पदे गुणीभूतव्यरूपे । 'ते' इति पदेनासाधारणगुणगणोऽभिव्यक्तोऽपि गुणत्वमवलम्बते, बाच्यस्यैव स्मरणस्य प्राधान्येन 15 चारुत्व हेतुत्वात् । 'जाने' इत्यनेनोत्प्रेक्ष्यमाणानन्तधर्मव्यञ्जकेनापि वाच्यमेव उत्प्रेक्षणरूपं प्रधानीक्रियते ॥
"
वयोः संकरो यथा ' न्यकारो हायमेव ' इति । अत्र अलक्ष्यक्रमव्यङ्ग्यस्य रौद्रस्य वाक्यार्थीभूतस्य व्यङ्ग्यविशिष्टवान्याभिधायिभिः पदैः संकरः । 'मेऽरयः ' इत्यादिभिहिं विभावादिरूपतया रौद्र एवानुगृह्यते वाच्यस्यैव क्रोधोद्दीपकत्वाद् 20 गुणीभूतव्ययता ॥
वाच्यालंकारसंसृष्टत्वं च पदापेक्षया, यथा' दीर्घी कुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमला मोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरत ग्लानिमङ्गानुकूलः सिप्राबातः प्रियतम इव प्रार्थना चाटुकारः || '
कूजितं च वातान्दोलित सिमातरजमधुरशब्दमिश्रं भक्तीति दीर्घत्वम् । विकसितपद्यामोदेन या मैत्री । अस्यासङ्गावियोगोऽन्योन्यानुकूल्य लाभस्तेन कषाय उपरक्तो मकरन्देन कषायवर्थीकृतः प्रार्थनार्थ चाटूनि कारयति,
25