________________
[५ ० उल्लासः ] काव्यप्रकाशः ।
ब्राह्मणातिक्रमत्यागो भवतामेव भूतये। ... जामदग्न्यस्तथा मित्रमन्यथा दुर्मनायते ॥१३॥
अत्र जामदग्न्यः सर्वेषां क्षत्रियाणामिव रक्षसां क्षणाक्षयं करिष्यतीति व्यङ्गयस्य वाच्यस्य च समं प्राधान्यम् । कोकाक्षिप्त यथा
मध्नामि कौरवशतं समरे न कोपाद दुःशासनस्य रुधिरं न पिबाम्युरस्तः । संचूर्णयामि गदया न सुयोधनोरू . “संधि करोतु भवतां नृपतिः पणेन ॥१३२॥
अत्र मनाम्येवेत्यादि व्यायं वाच्यनिषेधसहभावेन 10 स्थितम् । असुन्दरं यथा_. 'वाणीरकुंडंगुड्डीणसउणि कोलाहलं सुणन्तीए ।
घरकम्मवावडाए बैंहूइए सीअन्ति अहाई ॥१३३॥ अत्र दैत्तसंकेतः कश्चिल्लतागहनं प्रविष्ट इति व्यङ्ग्यात्सीदन्त्यङ्गानीति वाच्यं सचमत्कारम् ॥
संदेह इति । प्रतीयमानवाच्ययोर्द्वयोरप्यतिचमत्कारकारित्वादाधिक्यम् । तत एकतरस्य प्राधान्यं निर्धारयितुं न शक्यत इति संदिग्धम् ।। .
तुल्यप्राधान्ये यथा 'ब्राह्मणे 'ति । जामदग्न्यो रावणप्रधानपुरुषं प्रत्याह'द्विजावंज्ञात्यागश्चेत् क्रियते भवद्भिस्तदा भवतां भूतिरेवाहं च मित्रम् ॥ वाच्यस्य चेति, दौर्मनस्यलक्षणस्य ॥
काक्वाक्षिप्तं यथा ' मथ्नामि 'इति ॥ वाच्यनिषेधेति । वाच्यश्चासौ निषेधश्च वत्सहभावेन । शब्दशक्तिरेव हि स्वाभिधेयाक्षिप्तकाकुसहाया सत्यर्थविशेषमतिपत्तिहेतुर्न काकुमात्रमिति गुणीभूतव्यङ्गयत्वम् । न चात्र विपरीतलक्षणा, यत उच्चारणकाल एव न कोपादिति दीप्ततारगद्गदसाकाङक्षकाकुबलाद निषेध्यमानतयैव युधिष्ठिराभिमतसंधिमार्गाक्षमारूपत्वाभिमायेण प्रतीतिरिति मुख्यार्थ- 25 बाधाधभावात् ॥
असुन्दरमपि व्यङ्गय गुणीभूतमेव, यथा ' वाणार 'इति । 'वानीरा' वेतसक्षाः । 'कुडङ्ग' लतागहनम् ॥ वाच्यं सचमत्कारमिति । वाच्यस्यैव स्वात्मोन्मजनया निमज्जितव्यङ्गथजातस्य सुन्दरत्वेनावभासात् । तथा हि गृहकर्म
15
20