SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ • . .10 काव्यादर्शनामसंकेतसमेतः [५.५० उल्लास: ] यथा वा गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं त्वेवं विजनस्थयोईतजनः संभावयत्यन्यथा । इत्यामन्त्रणभजिसूचितवथावस्थानखेदौलसा माश्लिष्यन् पुलकोत्कराश्चिततनुर्गोपी हरिः पातु वः॥१२८॥ 5 अत्राच्युतादिपदव्यङ्ग्यमांमन्त्रणेत्यादिवाच्यस्य । एतच्चैकत्रैकवक्तगतत्वेनापरत्र भिन्नवक्तृगतत्वेनेस्यनयोर्भेदः। अस्फुटं यथा अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता । नाहष्टेन न हष्टेन भवता लभ्यते सुखम् ॥१२९॥ अत्रादृष्टो यथा न भवसि वियोगभयं च यथा नोत्पद्यते तथा कुर्या इति क्लिष्टम् । संदिग्धमाधान्यं यथाहरस्तु किंचित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः। उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥१३०॥ अत्रे परिचुम्बितुमैच्छदिति किं प्रतीयमानं "किं विलो 15 चनव्यापारणं वा वाध्यं प्रधानमिति संदेहः। तुल्यपाधान्य यथामेति । भ्रमिमभृतीनां तु मरणान्तानां साधारण एवार्थः॥ 'अच्युतः' विष्णुः अक्षरणश्च ।। 'दर्शनेन 'इति सुरतसेवाविकलेन । जनस्तावदेकान्तस्थयोरन्यथा मन्यते। भवांस्तु अच्युत उदासीनः, तत् किमात्मानं 20 घद, यावः[?]। आमन्त्रणंज्योत्करणम[?] ॥ वाच्यस्येति । सिद्धौ अङ्गमिति शेषः॥ बाच्येनैव हि वैदग्ध्यातिशयः प्रतीयते, इति वाच्यादेव चारुत्वसंपत् । वाच्यस्य तु स्वात्मोत्पत्तिः स्वोपस्कारका व्यङ्ग्यात् । वाच्यार्थस्य प्रतिपत्तये लाभाय एतद् व्यङ्ग्यमपेक्षणीयम् , अन्यथा वाच्योऽर्थों न लभ्येत, स्वतःसिद्धतया अवचनीय एव सोऽयः स्यादित्यर्थः ।। एतच्चेति व्यङ्गयम् । एकत्र भ्रमिमरति- 25 मित्यादौ एक एव कविर्वक्ता । अपरत्र च 'गच्छाम्यच्युत 'इति पूर्वार्ध गोपी, अपराचे तु कविर्वक्तेत्यनयोरुदाहरणयोर्भेदः॥ .. अस्फुटमिति । द्विविधं हि व्यङ्गय स्फुटं चास्फुटं च । तत्र यदेव स्फुटं शब्दार्थशक्या प्रकाशमानं तदेव ध्वनेर्मार्गः। इतरत्तु गुणीभूतम् । अतिस्फुटत्वेन .. च प्रकाशमानमगढमुक्तम् ॥ 30
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy