________________
5.
काव्यादर्शनामसंकेतसमेतः [५ ५० उल्लासः )
___ अथ पञ्चमोल्लासः। एवं ध्वनौ निर्णीते गुणीभूतव्ययस्य प्रमेदानाह
अगूढमपरंस्थाङ्गं वाच्यसिद्धयङ्गमस्फुटम् । संदिग्धतुल्यप्राधान्ये काकाक्षिप्तमसुन्दरम् ॥४५॥ व्यायमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः ।
कामिनीकुचकलशवद् गूढं चमत्करोति । अगूढं तु स्फुटतया वाच्यायमानमिति गुणीभूतमेव । अगूढं यथा
यस्यामुहृत्कृतविरस्कैतिरेव तप्तसूचिम्यधव्यतिकरण युनक्ति कौँ । काचीगुणग्रथनभाजनमेष सोऽस्मि जीवन् न संपति भवामि किमावहामि ॥११४॥ अत्र जीवन्नित्यर्थान्तरसंक्रमितवाच्यस्य । - उन्निद्रकोकनदरेणुपिशहिताङ्गा
गायन्ति मञ्जु मधुपा गृहदीर्घिकासु । एतच्चकास्ति च रवेर्नवबन्धुजीवपुष्पच्छेदाभमुदयाचलचुम्बि बिम्बम् ॥११५॥ अत्र चुम्बनस्यात्यन्ततिरैस्कृतवाच्यस्य ।
व्यङ्गयोऽर्थों ललनालावण्यप्रख्यो यः प्रतिपादितस्तस्य प्राधान्ये उत्तम काव्यं ध्वनिरित्युक्तं, गुणभावे च वाच्यचारुत्वाकर्षे गुणीभूतव्यङ्गयो नाम मध्यमः काव्यभेदो, 'अतादृशि गुणीभूते 'इत्यादिना सामान्येन लक्षितस्तस्य 20 विशेषानाह-अगूढमिति । व्यङ्गयं च वस्त्वादित्रयम् । तत्र वस्तुमात्रस्य व्यङ्गया
र्यान्तरसंक्रमितवाच्येभ्यः शब्देभ्यो वाच्यरूपवाक्यार्थापेक्षया गुणीभावे सति गुणीभूतव्यङ्गयता, यथा 'यस्यासुहृद् 'इति । 'यस्य' इति 'मे' 'काशगुण इति 'स्त्री'इत्यर्थः । अत्र 'जीवन्'इति स्वार्थस्यानुपयोगाद् जीवत्कार्याकरणलक्षणेs. न्तिरे संकिमतवाच्यस्तस्य च व्यङ्ग्यमतिस्फुटत्वेनाप्रधान, वाच्यस्यैव चमत्कार- 25 कारित्वाद्, अगिति पराक्रमरहितत्वं प्रतीयत इत्यगूढव्यङ्ग्यता ।
'चुम्बनस्य 'इति । चुम्बनं हि वक्त्रसंयोगः । स चानुपपन्न इत्यत्यन्ततिरस्कृवाच्यत्वं चुम्बनेन पदस्पर्शसंभावनां लक्षयता हृद्यत्वं शोभावहत्वादि च स्फुटमेव पतीयत इत्यगूढता ॥