SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनामसंकेतसमेतः [४ च. उल्लासः ] कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥११३॥ अत्र लिप्तेति पयोदसुहृदामिति चात्यन्ततिरस्कृतवाच्ययोः संसृष्टिः । ताभ्यां सह रामोऽस्मीत्यर्थान्तरसंक्रमितवाच्यस्यानुतावदाह 'कामं सन्तु 'इति । दृढम् 'इति सातिशयम् । — कठोरहृदयः' इति । राम- 5 शब्दार्थध्वनिविशेषावकाशदानाय कठोरहृदय-पदम् । यया 'तद्गेहम् ' इत्यु तेऽपि 'नतभित्ति'इति । अन्यथा राम-पदं दशरथकुलोद्भवत्वकौशल्यास्नेहपात्रत्ववाल्यचरितादिधर्मान्तरपरिणतमर्थ कथं न ध्वनेत् । 'अस्मि'इति स एवाई भवामीत्यर्थः । ' सर्वं सहे' इति । सर्वार्थस्य सहने कर्मभावेन विशेषणतयोपात्तस्योत्कर्षाधायितया प्राधान्येन विवक्षितत्वाद् न तेन सह कृवृत्तौ न्यग्भाव: 10 कृतः, वनवासादेरपि सर्वार्थान्तःपातित्वात् । प्रत्ययोत्पत्तौ तु न्यग्भूतकर्मभावः । सहने कत्रंश एव स्फुटीमवेद , न कांशः, तत्रैव प्रत्ययोत्पत्तेस्ततो विमृष्टवि. धेयांशत्वं दोषः स्यात् । वाक्ये तु यद्यपि शाब्दं क्रियायाः प्राधान्यं, तथापि विवक्षाकृतसाधनानामपि तत् प्रतीयत एव ।। 'वैदेहि ' इति । सहजसौकुमार्यसमर्थक मेघकालोचितसुन्दरपदार्थदर्शनासहत्वेन तस्याः कातरत्वं सूचयति । एतदेव 15 पूर्वस्माद् विशेषाभिधायिनः तु-शब्दस्य जीवितम् । 'भविष्यति 'इति क्रियासामान्यम् । तेन किं करिष्यति 'इत्यर्थः । अथ च भवनमेवास्या असंभाव्यमिति उक्तमकारेण हृदयनिहितां प्रियां सकलजलधरादीनां उद्दीपनविभावानां साधारणत्वावधारणादिना स्मरणेन 'वैदेहि 'इति शब्देन कथं भविष्यतीति विकल्पपरं. परया च प्रत्यक्षीभावितां हृदयस्फुटनोन्मुखी ससंभ्रममाह 'हहाहे 'ति । देवि'इति । 20 कृताभिषेका हि देवी । तस्याश्च राजवत् युक्तं धैयमित्यर्थः ।। संसृष्टिरिति । लिप्तशब्देन कान्तेः कुङ्कुमादिवल्लेपसाधनत्वाभावाद बाधितमुख्यार्थेन स्वार्थगतेषत्तिरोधीयमानत्वादियों धर्मस्तत्सदृशेषत्तिरोधीयमानत्वादिधर्मयोगात् कान्तिसंपृक्तोऽर्थों लक्ष्यते । एवं सुहृच्छब्देनापि पयोदानामचेतनत्वेन मैत्रीसंबन्धाभावाद् बाधितमुख्यार्थेन सुहृद्गता ये सौमुख्यादयो 25 धर्मास्तत्सदृशसांमुख्यादिधर्मयोगिनः पयोदाभिमुखा मयूरा लक्ष्यन्ते। ततो वाच्यस्यानुपपद्यमानत्वाद् अत्यन्ततिरस्कृतवाच्यध्वन्योर्द्वयोरपि स्वप्रधानत्वात परस्परनिरपेक्षा तिळतण्डुलन्यायेन संसृष्टिः ॥ ताभ्यां सहेति । अत्यन्ततिरस्कृतवाच्याभ्यां रामशब्दस्यापि प्रतिपन्नत्वात्
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy