________________
(०. उल्लासः ]
काव्यप्रकाशः। छणपाहुणि देयर जायाए मुहय किंपि दे भणियौ । रुअइ पडोहरैवलहीहरम्मि अणुणिजउ वैरायी ॥११२॥ अत्रानुनयः किमुपभोगलक्षणार्थान्तरे संक्रमितः किमनुरणनन्यायेनोपभोग एवं व्यङ्ग्ये व्यञ्जक इति संदेहः । तैयास्निग्धश्यामलकान्तिलिप्तवियतो वेल्लबलाका घना
वाताः शीकरिणः पयोदसुहृदामानन्दकेका कलाः । 'छणपाहुणिय 'इति । क्षण इत्युत्सवः । तत्र निमन्त्र्याहूता । ' हे देवर, एषा ते जायया किमपि भणिता रोदिति शून्यवलभीगृहे । अनुनीयतां वराकी।' सा तावदेवरानुरक्ता तज्जायया विदितवृत्तान्तया किमप्युक्तेति उभयतः कलहयितुं भ्रातृजायाया एषा उक्तिः ॥ अनुनय इति । 'एकान्तोचितेन संभोगेन 10 परितोष्यताम्' इत्येवंरूपेऽर्थान्तरे वाच्यस्य संक्रमणम् । असाध्व्यां चानुनयस्यानुपयोगाद् मुख्यार्थवाधः । यदि वा 'त्वं तावदस्यामेवानुरक्तः' इताकोपतात्पर्याद् अनुनयनमन्यपरं विवक्षितम् । अनुनयशब्दार्थों हि घण्टाघातायते। उपमोगश्चानुरणनायते। उभयथा च स्वाभिप्रायप्रकाशनादेकतरनिश्चये साधकबाधकममाण[णा]भावाद् अर्थान्तरसंक्रमितवाच्यविवक्षितान्यपरवाच्ययोः संदेहेन 15 संकरः। विवक्षितस्य हि स्वरूपस्थस्यैवान्यपरत्वम् । संक्रान्तिस्तु तस्यैव तदूपतापत्तिः ॥
.. 'स्निग्धश्यामले'ति । स्निग्धया जलसंबन्धसरसया श्यामलकान्त्या लिसमाच्छुरितं नमो यैः। वेलन्त्यो जम्भमाणाः प्रहर्षदर्शाद् बलाकाः सितपति. विशेषा येषु सत्सु । एवंविधा मेघाः, अतो नभस्तावद् दुरालोकं वर्तते । 20 दिशोऽपि दुःसहाः, यतः सूक्ष्मजलोद्गारिणो वाता इति मन्दमन्दत्वमेषामनियतदिगागमनं च बहुवचनेन सूचितम् । तर्हि गुहासु कचित् प्रविश्यास्यतामित्याह। पयोदानां ये सुहृदस्तेषु सत्सु शोभनहृदया मयूरास्तेषामानन्देन हर्षेण कला: षड्जसंवादिन्यो मधुराः केकाः शब्दविशेषाः, ताश्च सर्व पयोदवृत्तान्तं स्मरयन्ति, स्वयं च दुःसहा इति भावः ॥
एवमुद्दीपनविमावोबोधितविप्रलम्भः परस्पराधिष्ठानत्वाद् रतेर्विभावानां साधारण्यमभिमन्यमान इत एव प्रभृति हृदये पियां निधायैव स्वात्मवृत्तान्तं
25