________________
Vo
० उल्लाल ]
काव्यप्रकाशः ।
रचनानां व्यञ्जकत्वं गुणस्वरूपनिरूपेण उदाहरिष्यते । अपिशब्दात्मवन्धेषु नाटकादिषु । एवं रसादीनां पूर्वगणितभेदाभ्यां सह पैद् भेदाः ।
७९
त्वं व्यज्यत इत्यादि । सर्व एवांशो व्यञ्जकः । अशब्दात्मक नेत्र त्रिभागादीनामपि व्यञ्जकत्वम् । यथा
डायोगान्नवदनया संनिधाने गुरूणां बद्धोत्कम्पस्तनकलशयोर्मन्युमन्तर्नियम्य ।
तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बापमव्यासक्तश्चकितहरिणीहारिनेत्रत्रिभागः ॥
1
5
अत्र प्रवासविपलम्भोद्दीपनं त्रिभागादिशब्दसंनिधौ स्फुटं भातीति ।। 10 वर्णरचनानामिति । तत्र संघटना प्रकाशा संलक्ष्यव्यङ्गयो यथा 'चश्चभुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य ' इति । अत्र दीर्घसमासा संघटन कर्णसरणिमागतैव दीप्तं रसं रौद्रं व्यनक्ति । यद्यप्यत्र वर्णवाक्यादेरपि रौद्रव्य - कता तथापि संघनापि भवत्येव व्यञ्जिकेति कार्योदाहरणमेतद्, न नियमोदाहरणम् । साक्षाद् माधुर्यायो रसधर्मा ये गुणास्तद्व्यञ्जकत्वमेव । तद्द्वारेण 15 तु रसस्योत्कर्ष इति वक्ष्यते || प्रबन्धेष्विति । यथायथं प्रतिपिपादयिषितरसभावाद्यपेक्षया विभावानुभावव्यभिचार्यैचित्यचारुणः कथाशरीरस्य विधिः मबन्धे रसादिव्यव्जकत्वेन निबन्धनम् । गृङ्गारवर्णने सुना हि तादृशी कथा संश्रयणीया यस्यां ऋतुमाल्यादेर्विभावस्य लीलादेरनुभावस्य हर्षधृत्यादेः संचारिणः स्फुट एव सद्भावः । तत्रेति वृत्ते । यदि रसाननुगुणां स्थितिं पश्येत् तदा तां 20 भङ्क्त्वापि स्वतन्त्रतया रसानुगुणं कथान्तरमुत्पादयेद्, न हीतिहासवशादेव निबद्धव्यं, तत एव तत्सिद्धेः । यदुक्तम्
कथाशरीरमुत्पाद्य वस्तु कार्यं तथा तथा ।
यथा रसमयं सर्वमेव तत् प्रतिभाष[ ? स]ते ॥
संधीनां च मुखप्रतिमुखगर्भविमर्श निर्वहणाख्यानां तदङ्गानां चोपक्षेपपरि- 25 करन्यासावलोकनादीनां घटनं रसादिव्यक्त्यपेक्षया, यथा स्नावल्यां धीरललितनायकस्य धर्माविरुद्ध संभोग सेवायामनौचित्याभावाद् राज्यफळानुबन्धकन्या लाभफलोद्देशेन प्रस्तावनोपक्रमे पञ्चापि संघयोऽवस्थापञ्चकसहिताः समुचितसंध्यङ्गपरिपूर्णा अर्थप्रकृतियुक्ता दर्शिता एव, न तु केवलया शास्त्रस्थिति