________________
७८
काव्यदर्शनामसंकेतसमेतः [४ च० उल्लास ] बन्दीवैष यशांसि गायति मरुधस्यैकबाहितिश्रेणीभूतविशालतालविवरोद्रीणैः स्वरैः सप्तभिः ॥११०॥
अत्रासाविति भुवनेविति गुणैरिति सर्वनामवचनप्रातिपदिकवचनानां न त्वदिति न मदित्यपि त्वस्मदित्यस्य सर्वाक्षेपिणो यंकत्वं भाग्यविपर्ययादित्यन्यथासंपत्तिमुखेन, नत्वभावमुखे
नाभिधानस्य । तरुणिमनि कलयति कळामनुमदनधनुर्भुवोः पठत्यग्रे । अधिवसति सकळललैनामौलिमियं चकितहरिमचलनयना ॥१११।।
अत्रेमनिजव्ययीभावकर्मभूताधाराणां स्वरूपस्य, तरुणत्व २ इति धषः समीप इति मौलौ सतीत्यत्र त्वादिभिस्त्ये . 10 न्येषां वाचकत्वेऽस्ति कश्चित्स्वरूपस्य विशेषो यश्चमत्कारकारी स
एव व्यञ्जकत्वं मिोति । एवमन्येषामपि बोद्धव्यम् । यथा-'अहो बतासि स्पृहणीयवीर्यः' ॥ अत्र 'अहो, बत 'इत्यनेन श्लाघातिशयो ध्वन्यते ॥
राघवानन्दे रावणमुद्दिश्य कुम्भकर्णोक्तौ-'राम' इति । रामशब्दार्थों 15 दाशरथिरूपो जामदग्न्यावजयवालिवधादिधर्मान्तरपरिणतः । 'असौ' इति उत्कर्षातिशयशाली। भुवनेषु ' इति सर्वेष्वेव, न त्वेकस्मिन् । गुणाः षट् सन्ध्यादयः । 'गुणैः' इति बहुवचनमनेकमाङ्गिवैदग्ध्यं ध्वनति । तेन सर्वनामादिभिरलक्ष्यक्रमव्यङ्गयो वीररसः प्रकाशितः॥ न त्वभावमुखेनेति। भाग्याभावादिति नोक्तं, किं तु विपर्ययादिति । ततः सन्त्यस्माकं भाग्यानि, परं तेषामन्यथाभाव 20 इति ध्वन्यते ॥ ___'तरुणिमनि ' इति । ध्रुवोः संबन्धिन्यग्रभागे मदनधनुषः समीपे पठति सतीत्यर्थः । भुवोर शिष्य इव, मदनधनुश्चोपाध्यायः। तच्च वक्रमिति शिष्य. स्थातिवक्रत्वं ध्यन्यते । आधारस्य कर्मतापत्तेमौलिमिति । एषामिति इमनिजादीनाम् । स एव व्यञ्जकत्वमिति स एव व्यनकभावः। विभावादिव्यञ्जनद्वारतया 25 पारंपर्येणेत्यर्थः ॥ एवमिति । यथा 'न्यकारो ह्ययमेव मे यदरयः' इति बहुवचनं शत्रुशत्रुमद्भावो ममानुचित इति संबन्धानौचित्यं क्रोधविभावं व्यनक्ति। तपो विद्यते यस्येति पौरुषकथाहीनत्वं तद्धितेन मत्वर्थीये नाभिव्यक्तम् । तत्र अपि-शब्देन निपातसमुदायेन तापसस्य सतः शत्रुताया अत्यन्तासंभाव्यमान