________________
(१४४) योगचिन्तामणिः। [ काथाधिकार:क्वाथाधिकारः---चतुर्थोध्यायः ४.
-atok
तत्रादौ क्वाथभेदाः। रसः १ कल्को २ हिमः ३ क्वाथः ४ फांट ५ श्चैव स्मृतस्तथा । भेदाः पञ्च कषायाणां पूर्व पूर्वे बलाधिकाः ॥ १॥ पानीयं षोडशगुणं क्षुण्णद्रव्यपले क्षिपेत् । मृत्पात्रे वाथयेबाह्यमष्टमांशावशेषितम् ॥२॥ तज्जलं पाययेद्धीमान कोष्णं मृदग्निसाधितम् । स्मृतः क्वाथः कषायश्च नियूहः स निगद्यते ॥३॥काथः सप्तविधःप्रोक्तः पाचनः शमनस्तथा । दीपनः क्लेदनो भेदी सन्तर्पणवि. मोहनौ ॥ ४॥ पाचनः पच्यते दोषान्दीपनो दीप्यतेऽनलम् । शोधनो मलशोधी स्याच्छमनः शमते गदान ॥ ५ ॥ तर्पणस्तयते धीमान्भेदी चोत्क्लेदकारकः। विशोषी शोषमाधत्ते तस्मादुष्णं परिक्षिपेत् ॥ ६॥ क्लेदी विशोषी विज्ञाय वमनं कारयेत्ततः। काथे कृते न लंघेत नान्यथाऽन्यत्र चालयेत् ॥ ७॥ पाचनोविशेषः स्याच्छोधनो द्वादशांशकः । वेदनश्चतुरंशश्च शमनश्चाष्टशेषतः ॥८॥ दीपनीयो दशांशश्च तर्पणश्च दशांशकः। विशोषी षोडशांशश्च क्वाथभेदाः प्रकीर्तिताः ॥९॥ रस १, फल्क २, हिम, ३ क्वाथ ४, फांट ५, यह पांच भेद काढेके हैं, पूर्व २ में बल अधिक है. पानी १६ गुणा
Aho! Shrutgyanam