________________
विभक्त्यर्थनिर्णये। तिपादनात्पुरुषपदान्न द्वितीया एवं विषरक्षोऽपि सम्बर्ध्य स्वयं छेत्तु मसांप्रतमित्यादौ निपातेन कर्माभिधानानुक्षपदान्न द्वितीया । उतार्थानामप्रयोग इति न्यायमेवानुवदतौदं सूत्रम् । अत एव धात्वर्थान्तर्भूतकर्मकधातुयोगे न द्वितीया । यथा उदयगिरिसंयोगानुकूलव्यापारवाचिन उदयतेोगे उदयगिरिमुदेतीति न द्वितीयाप्रयोगः । एवमनभिहिते इति कर्तादौ सर्वत्र सम्बध्यते तेनाभिहिते कर्तरि करणे च न टतोया। संप्रदाने न चतुर्थी तथा ऽपादाने न पञ्चमी तथाऽधिकरणे न सप्तमी काद्यमिधानं तु कारकलक्षणे दर्शितमिति । नन्वभिहिते कर्मणि द्वितीयानिषेधे पक्कमोदनं भुङ्क्ते इत्यादो कता कर्माभिधानादोदनपदाद् द्वितीया न स्यात् । न च भोजनकर्मणोऽनभिधानाद् द्वितीयोपपत्तिरिति वाच्यम् । एवमपि चैत्रेण गम्यमानं ग्रामं मैत्री गच्छतोत्यादी गमिकर्मणः कृताभिधानात् द्वितीयाऽनुपपत्तः । न च चैत्र कर्ट कगमनकर्मणोऽभिधानेऽपि मैत्रकर्ट कगमनक मेणोऽनभिधानात् न हितीयाऽनुपपत्तिरिति वाच्यम् । एवमपि दृष्टमपि कान्तं मुहुः पश्यतीत्यादी कर्तभदेनापि क्रिय भेदविरहात दुशिक्रियाकर्मणः कृताभिधानात् द्वितीया नुपपत्त: । एवं दृश्यं पश्यति कृत्यं करोति इत्यादी यत्प्रत्ययेन कर्मणाऽभिधानात् द्वितीयापपत्तश्चेति चेन्न । यतोऽनभिहिते" इति सूत्वस्यान्य एव तात्पर्यार्थः । तथा हि । अनभिहिते इति सति सप्तमी तेन कर्मण्य न भिहिते सति द्वितीया भवतीत्यर्थः अत एवाभिधानाभावः कमनिष्ठो द्वितीयावाच्यतायां न निवि
Aho! Shrutgyanam