________________
द्वितीयाविभक्तिविचारः माषेष्ववं बध्नातीत्यादावश्वभोजनेच्छाविषयत्वेऽपि माषस्य न कर्मत्वं तुरगभोजनेच्छाया बन्धनाप्रयोजकत्वात् । तमपग्रहणं प्राधान्येन विषयललाभार्थम् । तच्च क्रियाजन्यफले सानाविशेषणत्वं तेन भोजनव्यापारस्य पयस्महितौदनकण्ठसंयोगो भववितीच्छाप्रयोज्यत्वेऽपि पयसो न कर्मत्वं पयसः कण्ठसंयोग फले साक्षाहिशेषणतया दूच्छाविषयत्वाभावात् । तेन पयसा सहोदनं भुङ्क्ते इत्यादौ पयःपदान्न हितौया । सर्वमेतहालोपलालनं न तु हितोयार्थोपवर्णनम् । द्वितीयातो दर्शितेच्छाविषयत्वस्य केनाप्यप्रतीयमानत्वात् । एवं"कारके इत्यधिकारः । कारकशब्दार्थः पूर्वमुक्तः । सप्तमौ निर्धारणार्था । तेन ईप्सितादिभिन्न कारकं न कर्मेप्सितादिकारकं कर्मेत्यन्वयबोधस्तेन कर्मशब्दसङ्केतोऽत्र कारके प्रदर्शितो न तु सर्वत्र । तेन कर्मपदार्थस्योत्क्षेपणादेरप्रदर्शनेन न न्यूनत्वमिति । एवं कारके इति सप्तमी प्रथमास्थाने इति नमः । एवं कर्मणि हितीयेत्यादौ अनभिहिते इत्यधिकारसूत्रेणाभिहिते कर्मणि द्वितीया निषिध्यते । अभिधानं तिङ्घत्तद्धितसमासैरन्येनापि अतः पच्यते पक्को वा तण्डुल दूत्यादी तिङा कृता कर्माभिधानात् तण्डुलपदान्न हितीया । नैयायिक: पण्डितः शत्योऽश्व इत्यादौ तहितेन कर्माभिधानात् न्यायपदादशवपदाहा न द्वितीया प्रासानन्दः पुरुष इत्यादौ समासेन कर्माभिधानात्पुरुषपदान्न द्वितीया समासस्याभिधायकत्वं शाब्दिकमते न्यायमते त्वानन्दकट,कप्राप्तिकर्मण्यानन्दपदस्य लक्षणा प्राप्तशब्दस्य तात्पर्यग्राहकत्वमिति आनन्दपदेनैव कर्मप्र
mugyanam