________________
विभक्त्यर्थनिर्णये ।
अथ द्वितीया ।
अम् और शसिति वयः प्रत्ययाः । तत्र सुमनसमर्चयति सुमनसौ सुमनसो वेत्यादौ श्रूयमाणत्वाद समस्तत्वेन औकारस्य औत्वेन सः अस्त्वेन वाचकत्वं टशावनुबन्धो कचिदप्यश्रूयमाणत्वान्न वाचकता कुचिप्रविष्टाविति । अनुशासन सिद्धस्तु द्वितीयाया अर्थ: अनुशासनं च "कर्मणि द्वितीये " ति तंत्र कर्म कर्मत्वं वा द्वितीयार्थ इत्यादिकमग्रे स्फुटीभविष्यति कर्मपद सङ्केतग्राहकं पूर्वोक्तमनुशासनम् । " कर्तु रोप्सिततमं कर्मे "ति तचानोतेः सन्नन्ततया निष्पन्नोऽपोप्साशब्दो रूढ्या इच्छ माचमभिधत्ते । न त्वाप्तीच्छामिति सन्नन्तस्याप्नोतेरिच्छेवार्थः । एवं वीप्सा शब्दो रूढ्या व्याप्तिमभिधत्ते न तु व्याशौच्छामिति सन्नन्तस्य व्याप्नोतेर्व्याप्तिरेवार्थः । एवं सन्नताप्नोतेः कर्मप्रत्ययेन तेन विषयो विषयताऽऽश्रयो वाऽभिधीयते। एवं "क्तस्य च वर्तमाने" इति विशेषानुशासनेन fastयोगे सिद्धा षष्ठी कर्तृत्वमाधेयत्वखरूपमभिते । तमप्प्रत्ययस्तु प्रकृत्यर्थतावच्छेदकान्वितमतिशयं प्रकर्षमभिधत्ते । कर्मपदवाच्यं कर्मशब्दार्थः । धात्वर्थस्य तिङर्थस्य वा व्यापारस्याश्रयः कर्ट शब्दार्थः । एवं व्यापाराश्रयनिष्ठेच्छाप्रकृष्टविषयः कर्मपदवाच्य इति स्वार्थः । इच्छा तु व्यापारजनिका बोध्या ग्रामसंयोगो भवत्वितीच्छायां ग्रामसंयोगसाधनं स्पन्द इति ज्ञानात्महत्यागमनोत्पत्यागमनप्रयोजकेच्छाविषयत्वं ग्रामे कर्मत्वं व्यापारप्रयोजकत्वस्येच्छायां लाभार्थं कर्तुरिति पदं तेन
६९
Aho ! Shrutgyanam