________________
प्रथमाविभक्तिविचारः। __ अत एव “तितिङ" इति सूत्रमतिङन्तात्परं तिङन्तं निहन्यत इत्यर्थकम् अग्नि दूतं वृणीमहे इत्यादौ तिउन्ते वृणीमहे शब्दे निघातखरं विदधाति तत्र सूत्र पचति भवतीत्यादी भवतीत्यादितिङन्ते निघातवारणायातिङ इति पदं सार्थकम् । अन्यथा तिङन्तयोरेकवाक्यताविरहे सामर्थ्याश्रितनिघातविधेस्तिङन्तपरे तिङन्ते प्रसक्तिन भवतीति व्यर्थमेवातिपदं स्यात् । न चैकतिवाक्यमित्यनेन नाने कतिङन्तवाक्यस्य निषेधः किं तु वाक्यं सतिङन्तमेवेति नियम इति वाच्यम् ।
कष्टा वेधव्यथा कष्टं नित्यमुहहनलमः । श्रवण नामलङ्कारः कपोलस्य तु भूषणम् ॥ इत्यादेस्तिङन्तशुन्य वाक्यस्य दर्शनात् । न चास्तिभवनिपरः प्रथम पुरुषो प्रयुज्यमानोऽप्यस्तौति कात्यायनवचनात् तिङन्तशून्यवाक्येऽस्तीत्यध्याहार इति वाच्यम् । अध्याहारे मानाभावात् । तिङन्तविना कृतं वाक्य न्नानुभावकमिति व्युत्पत्तिरपि न सम्भवति । तथा हि । प्रथमान्ततिङन्तवटितवाक्यस्थले प्रथमान्तार्थस्य तिङन्तेइन्वयोऽथुपियते भूतले न घट इत्यादावस्तीत्यध्याहारे तिङर्थे नञर्थविशेषणघटस्यान्वयासम्भवात् न च भूतलवृत्तित्वाभावो घटान्वेतीति वाच्यम् । कारकस्य कारकान्वितनञर्थस्य वा क्रियातिरिक्तोऽन्वयस्याव्युत्पन्नत्वात् न च भूतलाधेयत्वाभावोऽस्ती यत्र धात्वर्थ एवान्वेति धात्वर्थविशेषणे तिर्थकर्तरि घटस्य तादाम्य नान्वयइति वाच्यम् । घटपदस्यातीतघटपरतायां घटस्य तिङर्थकर्तरि योग्यताविरहात् तादात्म्येनान्वयासम्भवा
Ahoi Shrantes em