________________
विभक्त्यर्थनिर्णये ।
तदैव भवति यदि देवदत्तसम्बोध्यत्वं वचनक्रियायामन्वेति । न च ब्रूहीत्यव तिर्थकर्तरि सम्बोधनप्रथमातार्थस्य देवदत्तस्य तादात्म्येन सम्बोधनार्थस्य वा समवायेनान्वयोऽस्तु तावताऽप्येकवाक्यत्वरूप सामर्थ्य सुपपद्यत इति वाच्यम् । मध्यमपुरुषार्थे कर्तरि युष्मदर्थातिरितस्य तादात्म्येनान्वयायोगात् । व्रजानि देवदत्तेत्यव तिर्थकर्तरि सम्बोधनप्रथमान्तार्थस्य तादात्म्येन संबोधनार्थस्य च समवायेनाऽयोग्य तयान्वयासम्भवाच । तथाचीतं हरिणा ।
सम्बोधनपदं यच्च तत् क्रियाया विशेषणं । व्रजानि देवदर्त्तति निघातील तथा सति ॥ तस्मात्प्रातिपदिकविशेषितं सम्बोध्यत्वं क्रियायां विशेषणं तिङन्तविनाकृतं वाक्यमेव नास्तीति कात्यायनानुसारिणी वैयाकरणाः । फणिभाष्यकृतस्तु एकतिङवायमिति नानुमन्यन्ते । पश्य मृगो धावति, जानीहि जगज्जगन्नाथाज्जायते, अस्ति साधवः सोदन्ति, भवति दुजना मोदन्ते, इत्याद्यनेक तिङन्तमध्येकं वाक्यं मन्यन्ते तत्र मृगकर्तृकधावनस्य धावनकर्तृ मृगस्य वा कर्मतया दर्शने, जगत्कर्ट कनाथहेतुकजननस्य नाथहेतुकजननक - जगतो वा कर्मता ज्ञाने, साधुकर्ट कसोदनस्य सौदनक' साधोर्वा कर्तृ तथा सत्तायां, दुर्जनकट कमोदस्य मोदकर्तृ दुर्जनस्य वा कर्तृ तथा संसर्गेण भवने, यथादर्शनमन्त्रयोपगमादेवाक्यतानिर्वाहः । तथोक्तं च ।
मुबन्तं हि यथाऽनेकं सुबन्तस्य विशेषणं । तथा तिङन्तमध्या हस्तिङन्तस्त्र विशेषणम् ॥
६६
Aho! Shrutgyanam