________________
प्रथमाविभक्तिविचारः। . सिलोके लक्षणा तत्प्रयोजनं तु रामवरागत्वरूपवसुधाधर्मस्य लोके प्रतिपत्तिरिति । एवं सति गृहीतपदसकेतकोश्यकतया नास्य वाक्यास्योपहास्यत्वमिति दार्शनि कसिद्धान्तः । चेतनतादात्म्यारोपण वसुधायाः संबोध्यत्वं युष्मत्यतिपाद्यत्वं कष्टतरगततादात्म्यान्वयश्च सम्भवतीति । अत एव तुल्ये प्रस्तुते तुल्यस्याभिधानमित्य प्रस्तुतप्रशंसालंकार ईदृशस्थले स्फुरति पुत्रशोकसन्तप्तस्य वक्तुब्राह्मणस्य प्रस्तुतस्य तादात्म्यारोपण युमत्प्रतिपाद्यत्वसंबोध्यत्वयोर्वसुधायामुपपत्तौ युष्मदर्थे सम्बोधनान्तार्थे वसुधातादात्म्येनाध्यवसित: प्रस्तुतोऽर्थोऽन्वेति व्यञ्जनयोपस्थितइति रसविद्याविदः । युष्मदेकवचनादिव्यवस्था पूर्वोक्ताऽनुसन्धेया । श्रीस्वाहोत्यादी सम्बोधनैकवचनस्य सः श्रूयमाणत्वात् स्त्वेनैव वाचकत्वं हरे विष्णो रामेत्यादौ लोपः स स्मारक इति । तदिदं सम्बोध्यत्वं क्रियायां विशेषणम् “एकतिङ्वाक्यमिति कात्यायनवाक्यात् । तत्र भाष्यकारेण ब्रूहि देवदत्तेति वाक्यमुक्तम् । तस्यायमभिसन्धिः । "आमन्त्रितस्य चेति सूत्रेणामन्त्रणार्थकप्रत्ययान्तपदानां पदात्पराणामेव निधाता नाम सर्वानुदात्तः स्वरो विधीयते स च देवदत्तपदे तदा स्यात् यदि देवदत्तपदब्रूहिपदयोव्यं पेक्षा स्यात् । पदयोन्य॑पेक्षारूपसामर्थ्य विरहे समर्थ: पदविधिरिति व्यवस्थापनात् पदसम्बन्धिनो निघातविधेरप्रत्तेः देवदत्तपदे निघातो न स्यात् । तथा च वार्तिक । “समानवाये निघातयन्मदमदादेशा” इति समानवाक्यं समर्थवाकामेव ब्रूहि पददेवदत्त पदयोव्यपेक्षा
Abo+Shrutgyanan%3D