________________
५७
विभक्त्यर्थनिर्णये। क्यस्य प्रामाण्यापत्तिः । भाविभूतायाः पुरुषान्तरीयायाबूच्छाया विषयत्वस्य चैवीयवाक्यार्थज्ञाने बाधितत्वात् । एवं सम्बोध्यपुरुषत्तिवाक्यार्थज्ञानस्य वाक्याजन्यत्वेऽपि अटहौतपदसङ्केतं म्लेच्छमुद्दिश्याचार्यैः प्रयुज्यमानस्य शङ्गापरीत्यादिवाक्यस्य प्रामाण्यसम्भवात् उपहास्यत्वाभावप्रसङ्गच म्लेच्छे मानान्तरजन्यवाक्यार्थज्ञानस्य म्लेच्छवाक्यार्थज्ञाने चायेंच्छाविषयत्वस्याबाधितत्वात् म्लेच्छस्य सम्बोध्यत्वोपपत्तौ दर्शितवाक्यप्रामाण्यस्य निष्पत्यहत्वात् । तत्तत्कालीनत्वेन तत्तत्पुरुषोयत्वेन चेच्छायांतत्तहाक्य जन्यत्वेन ज्ञानस्य च सम्बोधनप्रथमार्थत्वे शक्यानन्त्यमिति चेन्न । यतः स्वघटितवाक्यप्रयोगोपधायकत्वोपलक्षितेच्छायां स्वघटितवाक्यजन्यत्वोपलक्षिते जाने च सम्बोधनप्रथमायाः शक्तिः । यथा तदादिपदोनां स्वप्रयोगोपधायकबुद्धिप्रकारत्वोपलक्षितधर्मविशिष्ट शक्तिः शक्तिग्रहस्तु सामान्योपलक्षितविशेषावगाही सर्वोपसंहारेण । तथा हि। तत्पदत्वावान्तरतत्तात्वोपलक्षितास्तत्तत्यदत्त्वव्यक्तीर्धर्मितावच्छेदकोक त्य तत्यदप्रयोगोपधायकबुद्धिप्रकारचगवान्तरतत्तात्वो पलक्षितधर्मविशिष्टबोधकलावगाहो वृत्तिग्रहः । फलतस्तत्पदत्वावच्छेटेन तत्तधर्मविशिष्टवाचकतामेवावगाहते । तथा सम्बुद्धिप्रथमाया अपि प्रथमात्वावान्तरतत्तास्वोपलक्षिततत्तत्पथमात्वावच्छेदेन सम्बोधनप्रथमाप्रयोगोपधायकत्वावान्तरतत्तात्वोपलक्षितधर्मविशिष्टच्छावाचकत्वं गृह्यते । इच्छायां तादृशोपलक्षितधर्मम्तद्यक्तित्वमेव । न च तद्यक्तित्वेनेच्छावगमे वाचकतायामि छाप्रवेशो व्यर्थ इति वा व्यम् । दू
Aho! Shrutgyanam