________________
प्रथमाविभक्तिविचारः। __ इत्यादौ सम्बोध्स्यय हित्वे भवच्छन्दो बहुवचनान्तस्तत्र न सम्बोध्यार्थको भवच्छब्दः किं तु शवन्तः तेन मनुजपशुभवनविशिष्ट रिति यैरित्यस्य विशेषणम् । यत्त नाथ पालयेत्यादौ पालनकर्ट त्वस्य सम्बोधनप्रथमान्तार्थएवान्वय इति । तदसत् । गुणीभूते प्रथमान्तार्थे आख्यातार्थान्वयायोगात् । सम्बोधनप्रथमान्तार्थस्य सम्बोध्यत्वे गणीभूतत्वात् । अन्यथा नारायण इव नरो गच्छतीत्यादौ नारायणेऽपि गमनकट त्वान्वयप्रसङ्गात् । किं च युष्मदोऽमामानाधिकरण्ये मध्यमपुरुषो न स्यात् । • न च युष्मत्पर्यायो यः सम्बोधन प्रथमान्त इति मध्यमपुरुषोपपत्तिरिति वाच्यम् । तथा सति भवच्छब्दसामानाधिकरण्येऽपि मध्यमपुरुषप्रसङ्गात् । नन्वेवम् ।
अकाण्डशक्तिनिर्भिन्ने वत्से जहति चेतनां ॥ हताश राम कस्यार्थे दग्धं जीवितमिच्छसि । इत्यादी रामस्य वक्तः सम्बोध्यत्वमनुपपन्नम् । तदा हि तस्य वाक्यार्थज्ञानासत्वे वाक्यप्रयोगोऽनुपपन्नः । वाक्यार्थज्ञानस्य सत्वे तु तस्य सिद्धतया तवेच्छाविरहवाक्यार्थसिद्धौ शाब्दबोधो न भवतीति चेन्न । मानान्तरजन्यवाक्यार्थज्ञानसत्वेऽपि वाक्यार्थगोचरशाब्दत्वावच्छेदेनेच्छासम्भवात् । श्रवणसिद्धौ मननेच्छावत् सिद्धेः शाब्द प्रत्यप्रतिबन्धकत्वात् । प्रतिबन्धकत्वे वा शाब्देच्छाविरहविशिष्टायास्तस्यास्तथात्वाच्चेति वक्तुरपि स्ववाक्यजन्याभीष्टवाक्यार्थबुद्धिसमवायितया सम्बोध्यत्वमवाधितमिति संप्रदायः । ननु सम्वोध्यपुरुषवृत्तिवाक्यार्थज्ञानस्य सिद्धत्वनिश्चये करणापाटवेन प्रयुक्तस्य चैत्र त्वं गच्छेति वा
Aho I Shrugyanan