________________
प्रथमाविभक्तिविचारः। के इत्यादावोकारभाव प्राप्तस्यापि अस पस्त्वन शससाधारणेन रूपेण पुंस्त्वबहुत्ववाचकत्वं लिङ्गवाचकता तु असः जस्शस्ङसिङस्साधारणेनास्त्वेन रूपेण बोध्या । एवं सुबन्तस्यापि लिङ्गसंखग्रावाचकतावच्छेदक साधारणं रूपं सुधीभिरूद्यमिति द्वितीयादौनां लिङ्गसंखार्थकत्वम् । सूत्रे मावग्रहण प्रथमायां कर्मत्वाद्यर्थकत्वव्यवच्छे हमुखेन प्रथमार्थस्य सर्वसुवर्थत्वं ज्ञापयत्स्चयति । इति विभक्त्यर्थनिर्णये सम्बोधनेतरप्रथमार्थनिर्णयः ।
सम्बोधनमपि प्रथमार्थस्तथा चानुशासनम् ॥ . "सम्बोधने चे"ति। सबोधनं बोधोद्देश्यकच्छा तत्र ज्ञानमिच्छा च खण्डशः प्रथमार्थः ।तत्व प्रातिपदिकार्थ: समवेतत्वसम्बन्धेन ज्ञानेऽन्वेति । प्रातिपदिकार्यान्विते जाने उद्देश्यतासम्बन्धेनेच्छा ऽन्वेति ज्ञानं च विशिष्टविषयतासम्बन्धेन वाक्याथै इन्वेति । एवं प्रातिपदिकाथसमवेतज्ञानस्योद्देश्यतया ज्ञानसमवायितयोद्देश्यत्वस्वरूपं सम्बोध्यत्वमर्थतः प्रातिपदिकार्थस्य प्रतीयते एतदेव सम्बोध्यत्वं काशिकायामाभिमुख्यपटेनोक्तम् । एवं सति ब्रह्मन् पालयेत्यादौ ब्रह्मसमवेतेष्टज्ञानविषयएकत्वकर्तृकमाशंसाविषयपालनमिति शाब्दिकस्य ब्रझसमवेतेष्टज्ञानविषय आशंसाविषयपालनकतैकस्त्वमिति तार्किकस्य शाब्दबोधः । एवं यादृशरूपावच्छेदेन सम्बोध्यत्वं प्रथमया प्रत्याय्यते तादृशरूपविशिष्टमेव यष्मदा परामण्यते सम्बोध्यतावच्छेदकोपलचितधर्मविशिष्ट एव युष्मत्पदशक्तः। देव त्वं पुरुषोत्तमोऽसीत्यादी पु सत्त्व कत्वविशिष्टदेवत्वावच्छेदेन सम्बोध्यत्वमेकवचनप्र
Ano Sirugyanam