________________
विभक्त्यर्थनिर्णये। मसत्वं व्याहत्येत । तत्रापि लिङ्गान्वयायोग्यत्वस्यं घटपठादिप्रातिपदिकादिसाधारणतया संख्यान्वयायोग्यत्वस्यैवासत्वशब्दार्थत्वादिति चेत् । साक्षात्संख्यान्वयायोग्यत्वमसत्वं धात्वर्थस्य बुद्धिहारा संख्याऽन्वयित्वेऽपि निकतासत्वमव्याहतमेव । न चैवं वेदाः प्रमाणमित्यादी संखप्रायाः प्रमिति करणे साक्षादनन्धयादसत्वं स्यादिति वाच्यम् । प्रमाणानौत्यादौ प्रमाणे साक्षात्संखयान्वयादयोग्यताया विरहात् । अयोग्यतापर्यन्तधावनेन कचित्संखवाया अनन्वयेऽपि नासत्वमिति । यहा प्रातिपदिकार्थत्वं सत्वं तदभावोऽसत्वं तच्च धात्वर्थे निरावाधमेव । अत एव प्रातिपदिकार्थः सत्ता इति काशिकारतिस्तत्र प्रातिपदिकार्थ इति भावप्रधानो निर्देशस्तेन प्रातिपदिकप्रतिपाद्यता सत्तेत्यवगम्यते । प्रातिपदिकाथोदाहरणमुच्चैर्नीचैरित्यपि तत्र वृत्तौ दृश्यते । अन्यथालिङ्गसंखयान्वययोग्यत्वरूपसत्वस्योदाहरणामव्ययस्थले - लग्नं स्यादिति । तथा च सूत्र प्रातिपदिकार्थोक्तियत्न लिङ्गाद्यन्वययोग्यो नार्थस्तत्वापि साधुत्वार्थ प्रातिपदिकसंज्ञाबलात्पथमा भवतीति ज्ञापनार्थमिति । एवं सुऔजस् इत्यत्र उकारजकारावनुबन्धी न वाचकताकुक्षिप्रविष्टौ श्रीकृष्णस्वाता इत्यव श्रूयमाणस्य कृष्णः पालथितेत्यादौ विसर्गभावं प्राप्तस्यापि सकारस्य रुत्वेन रूपेण पुंस्त्वैकत्ववाचकत्वं सारस्वतौ मेषौ भवत इत्यादौ श्रूयमाणस्यावौत्यादौ दीर्धकारभावं प्रोप्तस्याप्यौकारस्यौत्वेन औटःसाधारणेन रूपेण पुंस्त्वदित्ववाचकत्वम्। एवं सुमनसखिदिव इत्यादौ श्रूयमाणम्य सुमनसो ना
Aho! Shrutgyanam