________________
प्रथमाविभक्तिविचारः। चैत्रेणेत्यादौ धात्वर्थव्योपाराणां बहुत्वात्कथमेकत्वान्वय इति वाच्यम् । व्यापाराणां बहुत्वेऽपि पूर्वापरौभूतानां तेषामेकबुद्धिविषयतयैक्यसम्भवात् । बुद्धिगतैकत्वस्य स्वाश्रयविषयत्वसंबन्धेन व्यापारेष्वन्वयसम्भवात् । तदुक्तम् ।
गुणभूतैरवयवैः समूहः कमजन्मनां। बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥ इति पूर्वापरीभूतं भावाख्यातमाचष्टे । यथा पति व्रजतीत्युपक्रमप्रभृत्यपवर्गपर्यन्तमिति निरुक्तमप्यममर्थ संवदति । न चैकबुद्धिविषयतया व्यापाराणामैक्ये भावाख्याते कथं द्विवचनबहुवचनोपपत्तिरिति वाच्यम् । तादृशव्यापाराणां पुनः सम्भवे बुध्यन्तरविषयतया तथा हित्वान्वयसम्भवात् द्विवचनस्य पुन: पुन: सम्भवे पुनर्बुध्यन्तरविषयतया तथा बहुत्वान्वयसम्भवात् बहुवचनस्य चोपपत्तेः । एवमास्यन्ते इत्यादौ उपवेशनव्यापाराणां मुहुरन्तरोत्थाने विचतुःकृत्वो जातानां बहुतया बहुवचनोपपत्तिः । शय्यन्ते इत्यत्रापि शयनव्यापाराणां मुहुरन्तराजागरणे विचतुः कृत्वो जातानां बहुतया बहुवचनोपपत्तिः । इत्थं चोपवेशनक्रियाविशेषणस्य उष्ट्रवासिकाशब्दस्य शयनक्रियाविशेषणस्य हतशायिकाशब्दस्य बहुवचनान्तत्वं बहुत्वविशिष्टव्यापारे बहुत्वान्यसंख्याविशिष्टस्य तादात्म्येनान्वयायोगात्ममानवचनत्वं तन्त्रम् । उष्ट्रासनसदृश उष्ट्रासिकाऽर्थः । हतशयनसदृशो हतशायि- .. कार्थ इति उष्ट्रासनसदृशानि वर्तमानासनानि हतशयनसदृशानि वर्तमानशयनानौति वाक्यार्थबोध: । नम्वेवं धात्वर्थे संख्यान्वयोपगमे लिङ्गसंख्यान्वयायोग्यत्व
Abo Shantana