________________
विभक्त्यर्थनिर्णये ।
1
न्दसि यथा पुनर्वसुर्नचत्रमदितिर्देवता पुनर्वसू नक्षत्रमदितिर्देवता यथा वा विशाखा नचवमिन्द्राग्नी देवता विशाखे नचत्रमिन्द्राग्नी देवता । लोके तु पुनर्वस विशाखाशब्दौ नित्यद्विवचनान्तौ नासत्यशब्दवत् । तिष्यपुनर्वखोर्नचवइन्द्र बहुवचनस्य दिवचनं नित्यम्" इत्यनुशासनेन तिष्यश्च पुनर्वसू चेति विग्रहसमानार्थकात् तिष्यपुनर्वसू इति इन्द्रादुत्तरं द्विवचनं तिष्ये पुनर्वस्वोश्च वर्तमानं बहुत्वमभिधन्ते । फल्गुनो वान्तवग्रहणेऽनुवर्तमानेऽस्मिन्सूत्रे पुननं चत्रग्रहणं पर्यायेणापि इन्द ं सूचयति । तेन पुष्यपुनर्वसू सिां ध्यपुनर्वसु इत्यादिद्दन्दोऽपि द्विवचनं तथा नित्यगृहणं बहुवचनं निषेधति । बहुवचनस्येति विशेषोपादानं तिष्यपुनर्वस्विति क्लौवैकवचनान्तद्दन्द्र सूचयति ज्ञापयतिच सर्वो इन्द्रो विभाषैकवद्भवतीति क्लौवैकवचनान्तज्ञापनेन क्लबद्दिवचनान्तद्दन्दस्य निषेधोऽवगम्यते । तेनतिष्यपुनर्वसुनौ इति न इन्दः । जात्याख्यायामित्यादितिष्यपुनर्वस्वोरित्यन्तमूत्राणां तात्पर्यार्थाः काशिकासंमताः प्रदर्शिताः । एवं तिङर्थानामे त्वादीनां प्रथमान्तार्थेऽन्वयः भावाख्यातस्थले तिङर्थभावनाया विरहात् तदन्वयिप्रथमान्तार्थासम्भवान्न तिर्थसंख्यान्वय सम्भव इति चैत्रेण स्योयते इति साधुत्वार्थमेकवचनं भावाख्यातस्यले न तु द्विवचनवहुवचने । फणिभाष्यकृतस्तु उट्रासिका श्रस्यन्ते हतशायिकाः शय्यन्ते इति भावाख्यातवहुवचनं दर्शयन्ति स्म । तेषामयमाशयः । भावाख्यातस्थले एकत्वादिसंख्या धात्वर्थेऽन्वेति । न च पच्यते
Aho ! Shrutgyanam