________________
प्रथमाविभक्तिविचारः। त्याय्यते । तत्राप्येकजातिविवक्षिता तत्रैवायं वचनव्यवस्था एकजातिविवक्षगात् सम्पन्नौ बीहियवावित्यादी नैकवचनबहुवचने । एको व्रीहिरित्यादौ न बहुवचनं "संख्यायोगे प्रतिषेधो वक्तव्य" इतिवार्तिकेन निषेधात् । एवं ब्राह्मणेन हतः पततीत्यादौ ब्राहाणत्वजातावेकत्वमन्वेति ब्राह्मणत्वखरूपैकजातिमत: सामान्येन हननान्वयविवक्षणात् ब्राह्मणसामान्यकर्तकस्यैव हननस्य पातित्यप्रयोजकत्वं न तु ब्राह्मणविशेषकत कस्य । एवं गृहं संमाष्टोत्यादौ गहत्व एवैकत्वमन्वेति गृहसामान्यकर्मत्वस्यैव संसर्गेऽन्वयान्न तु गहविशेषकर्मत्वस्येति । "अस्मदो इयोश्चे" त्यनुशासनेनाहं ब्रवीमि आवां ब्रूव इत्यर्थ न्यतरस्यां वयं ब्रूम इति बहुवचनमस्मदर्यान्वितमेकत्वं हित्वं चाभिधत्ते। “सविशेषणस्य प्रतिषेधो वक्तव्य"इति वार्तिकेन विशेषण योग बहुवचनस्य निषेधः यथा देवदत्तोऽहं बीमीत्यादौ । युष्मदि गुरावेकेषामित्यनुशासनेन त्वं गुरुरावां गुरू इत्यर्थेऽन्यतरस्यां बहुवचनं यूयं गुरव इत्यादौ युष्मदर्थान्वितमेकत्वं हित्वं चाभिधत्ते । “फल्गुनी प्रोष्ठपदानां च नक्षत्रे" इत्यनुशासनेन फल्गुनीप्रोष्ठ पदाभ्यां शब्दाभ्यामुत्तरमन्यतरस्यां बहुवचनं फल्गुनी नक्षत्रगतं प्रोष्ठ पदानक्षत्रगतं च हित्वमभिधत्ते । नक्षत्रगहणेन फल्गुन्यौ माणविक इत्यादौ न बहुवचनम् । “छन्दमि पुनर्वस्वोरकवचनम्" इत्यनुशासनेन "विशाखयोच” इत्यनुशासनेन च पुनर्वमुशब्दाहिशाखाशब्दाच्चोत्तरमन्यतरस्या मेकवचनं पुनर्वसुनक्षत्वगतं विशाखानविगतं च हिल मभिधत्ते छ
Aho Shrutgyanam