________________
विभक्त्यर्थनिर्णये ।
४९
वेदाः प्रमाणमित्यादौ प्रकृत्यर्थतावच्छेदकप्रमाणत्वे तद्द्वारा प्रमाणे वा एकत्वस्यान्वयः । यत्र तु "विंशत्याद्याः सदैकत्वे सर्वाः संख्ये य संख्ययोरि" ति कोशेनानुशिष्टस्यैकवचनस्यार्थ एकत्वं विंशतित्वादिसंख्यायामन्वेति । यथा विंशति ब्रह्मणाः शतं धार्तराष्ट्राः सहस्रं भानोः करा इत्यादौ विंशतित्वादौ बहुत्वान्वयविवक्षणे तु बहुवचनमपि प्रमाणं यथा “ असंख्याताः सहस्राणि ये रुद्रा अधिभूम्यामिति श्रुती' तिस्रः कोत्यो ऽर्धकोटौ च तीर्थाना वायुरब्रवीदि" ति पुराणे ।
किमेकयैव विंशत्या बाहुभिस्त्वं विकत्थसे । पश्य रावण नाराचैश्विनद्मि कति विंशती: ॥ इादी लोके च तथा प्रयोगदर्शनात् । ते श तानि वयं पञ्चेत्यव बहुवचनान्त तच्छब्दविशेषणात् । संख्येयवाचिनः शतशब्दा बहुवचनं बहुवचनान्तास्मच्छव्द विशेषणात्पञ्चशब्दाद्दजवचनञ्च साधुत्वार्थमेव । एवं दशशतान्यम्भोज संवर्तिका 'इत्यादी संख्य यवाचिनो दशशब्दस्यार्थः संख्ये यवाचिशतशब्दार्थे तादाम्येनान्वेति । शिखी विनष्ट इत्यादाविव सविशेषणे होति न्यायेन शतत्त्व संख्यामादाय पर्यवसानं शतत्वे दशत्वविशिष्टतादाम्यावगमे महत्वसंख्या लाभ इति । जातिगतेकत्वविवचायामेकवचनं बहुवचनं च प्रमाणम् । "जात्याख्यायामेकस्मिन्बहुवचन मन्यतरस्यामि " त्यनुशासनात् । जातिरूपे एकस्मिन्नर्थे बहुवचनमेकवचनं च स्यादिति मचार्थः । यथा सम्पन्नो व्रीहिः सम्पन्ना व्रीहय इत्यादी व्रीहित्वातावेकत्वमेकवचन बहुवचनाभ्यां प्र
•
Aho ! Shrutgyanam