________________
प्रथमाविभक्तिविचारः ।
वन्नित्यद्दिवचनान्तोऽपि न द्दित्वविशिष्टवाचकः येन निराकाङ्क्षतया नान्वयः प्रसज्येत । ननु गगनपदस्य शब्दविशिष्टवाचकतया गगनपदार्थैकदेशे शब्दे बहुत्वान्वयविवचायां गगनानीति प्रयोगः स्यात् । एकदेशेऽग्वयानभ्युपगमें पूज्यपादा इत्यचैकदेशे पूजायां बहुत्वान्वयो न स्यात् । एवं वेदाः प्रमाणमित्यत्र प्रमाणत्वेनैकत्वान्वयः स्यादिति चेत् । व्युत्पत्तिवैचिचैान्वयोपगमेन समोहितसिद्धौ नैकदेशाऽन्योऽभ्युपेयते पूज्यपादा इत्थव पूजाविशिष्टपादे बहुत्वान्वयः पादे बाधात्पूजायां पर्यवस्यति शिखी विनष्ट इत्यादिवत् । एवं प्रमाणमित्यव प्रभाविशेषितल्युडर्थकरणे एकत्वान्वयः करणे बाधात्प्रमायां पर्यवस्यति । तवापि स्वाश्रय शाब्दParacaeम्बन्धेन प्रमायामन्वेति सविशेषणे हौतिन्यायात् तदेव विशेषणं यत्सामान्यधर्मवतः व्यावर्तयति यथा घटे नौलादिः नौलान्यष्टात् स्वाश्रयघटं व्यावर्तयति । शब्दस्तु नेदृशं येन गगनानीति प्रयोगः स्यात् प्रजा प्रमा चेदृशमेव विशेषणमिति सविशेषणे हौतिन्यायस्य विशेष्ये योग्यताया इव चाकाङ्क्षाया अपि बाधः प्रापक एव सति विशेष्यबाधे इत्यस्य विशेष्यान्वयाभावे सतीत्यर्थः । एवं वामे बहनूकुशानित्यत्र बहुत्वविशिटकुशे बहुशब्दार्थस्य बहुत्वविशिष्टस्य तादात्म्येनान्वयो निराकाङ्क्ष इति कुशविशेषणवजत्वेऽन्वयः पर्यवस्यति । बहुशब्दोत्तरबहुवचनं साधुत्वार्थमेव कुशश`ब्दोत्तर बहुवचना बहुशब्दाच्च वित्वोपस्थितिस्तात्पर्यविशेषेणैवेति । क्वचिदेकत्वस्याप्येवं रीत्याऽन्वयः । यथा
४८
Aho Shrutgyanam