________________
विभक्त्यर्थनिर्णये। ध्वौपचारिकमिति । परिमाणं गुरुत्वं परिमितिश्च द्रोणो ब्रोहिरित्यादौ गुरुत्वविशेषवाचिनो द्रोण शब्दाव्यथमा गुरुत्त्वमभिधत्ते । प्रथमार्थगुरुत्वे द्रोणपदार्थस्याभेदेनान्वयस्तादृशगुरुत्वं ब्रौहावन्वेति । एवं द्रोणाभिन्नगुरुत्ववान् ब्रीहिरिति वाक्यार्थबोध: । वितस्तिः शङ्ख इत्यादी हादशाङ्गलपरिमाणवाचिनो वितस्तिशब्दात् प्रथमा परिमाणमभिधत्ते । प्रथमार्थपरिमाणे वितस्तिशब्दार्थस्याभेदेनान्वयस्तादृशपरिमाणस्य शोऽन्वयः एवं वितस्त्यभिन्नपरिमाणवान् शङ्ख इति वाक्यार्थबोध इत्यनन्यलध्यत्त्वाद् गुरुत्वत्वेन गुरुत्वं परिमाणत्वेन परिमाणं च प्रथमार्थ इति अव गुरुत्वविशेषविशिष्टबाचिनो द्रोणशब्दम्यार्थः ब्रीही परिमाणविशेषविशिष्टवाचिनो वितस्तिशब्द म्थार्थः शङ्ख तादात्म्येनान्वेति । तावतैव बौहौ गुरुत्वविशेषवैशिष्ट्यस्य शङ्ख परिमाणविशेषवैशिष्ट्यस्यावगमसम्भवात् । गुरुत्वत्वेन गुरुत्त्वस्य 'परिमाणत्वेन परिमाणस्य भानमप्रामाणिकमेवेति गुरुत्वं परिमाणं च न प्रथमार्थ इति पदवाक्यरत्नाकरे गुरुचरणाः । युज्यते चायमर्थः । तथा हि । यदि परिमाणं प्रथमार्थस्तस्य प्र. कृत्यर्थविशेषितस्य प्रातिपदिकान्तरार्थोऽन्वय स्तदा राज: पुरुष इत्यादाविव द्रोणो ब्रौहिरित्यादौ समानविभक्तिकतानियमो न स्यात् । तथा च द्रोणो ब्रीहिं ब्रौहिणाबौहे झैही वेत्यादिप्रयोगः स्यादिति । यदि च द्रोणो बौहिः वितस्तिः शङ्ख इत्यादी गुरुत्वत्वेन गुरुत्वं परिमागा त्वेन परिमाणं प्रतीयत एव तदा गुरुत्वं परिमाणां च प्रथमार्थ एवानन्यलम्यत्वात् । यदि च प्रक त्यविशे.
Aho ! Shrutgyanam