________________
प्रथमाविभक्तिपिचारः। मेव पचतीत्यादौ प्रथमां विना तिडा प्रतीयमानत्वात् । प्रथमार्थत्वं तु न युज्यते तिङ विना प्रथमया कुवाप्यप्रतीयमानत्वादन्यलण्यत्वाच्च । पटो न वट इत्यादौ पटघटभेदान्वयबुद्धौ जायमानायां घटपदोत्तरप्रथमायाः कथमपि कटत्वप्रत्यायकत्वं न मम्भवतीति न कर्ट त्वं प्रथमार्थ इति पचतीत्यादौ तृतीयाया असाधुत्वात् षध्या असाधुत्वात्षयर्थस्याविवक्षणादा द्वितीयादेरर्थस्यायोग्यत्वात् प्रयोगबाधे"न केवला प्रकृति: प्रयोक्तव्ये"ति साधुत्वार्थं प्रथमोपात्ता प्रथमा चैत्रादिपदानन्तरं प्रयुज्यत इति । लिङ्गं पुंस्त्वं स्त्रीत्वं लोबत्वं च तत्र शोणिताधिकशुक्रसमवेतप्राणित्वं पुंस्त्वम् । शुक्राधिकशोणितसमवेतप्राणित्वं स्त्रौत्वम् । समशुक्रशोणितोभयसमवेतप्राणित्वं क्लीबत्वम् । तथा च निरुक्तम् । शुक्रातिरेके पुमान् भवति शोणितातिरेके स्त्री भवति हाम्यां समन पराढो भवतीति । चतुर्भजो हलायुधो मकरध्वज इत्यादौ पुं. स्त्वम् अदितिः श्रीधेनुरित्यादी स्त्रीत्वम् मार्दङ्गिक कुण्डलि गायनं हन्न लमित्यादौ लौवत्वं प्रथमाऽभिधत्तइति लिङ्गं प्रथमार्थोऽनन्यलभ्यत्वात् । घटादिशब्दे तु पु. स्त्ववाचकसुपप्रकृतित्वं पुस्त्वमौपचारिकमिति । एवं तटोत्यादौ तटशब्दे ईत्वेन स्रौत्ववाचकस्य ङीप्रत्ययस्य प्रकृतित्वं स्त्रौत्वम् । भुजेत्यादौ भुजशब्दे पात्वेन स्त्रीत्ववाचकस्य टाप्रत्यस्य प्रकृतित्वं स्त्रौत्वं दधीत्यादौ दधिशब्दे नपुंसकत्ववाचकस्य लोपस्मारितसुपः प्रकृतित्वं नपुंसकत्वं कुण्डमित्यादौ कुण्डशब्दे नपुंसकत्ववा_ चकस्यामस्मारितसुपः प्रकृतित्वं नपुंसकत्वं सर्वत्र शब्दे.
A
shrugyanam