________________
विभक्त्यर्थनिर्णये ।
४३
अतएवेवपदयं सङ्गच्छते । ततो रविक कोलकरकरमकर्म र सट्टशशरकरण को दोच्य कर्मको डरकर्ता रघुरिति विशिष्टवाक्यार्थबोधस्तव तृतीयाद्दितौयार्थयोः करणत्वकर्मत्वयो इत्विर्थे नान्यात् । तृतीयाद्वितीययोर्नानुपपत्तिरिति कालापैरुक्तम् । तदसत् । घटो
घटात्यन्ताभाव शाब्दे प्रथमया कर्तृत्वाभिधानासम्भवात् । यदि च तवास्तिधात्वर्थान्विततिङर्थात्यन्ताभावविशेष्यतया घटः प्रतीयते तदाऽपि प्रथमया कर्तत्वाभिधानमसम्भवि प्रथमोक्तकर्तत्वस्य नञर्थान्वयासम्भवात् । न च तिङ्प्रथमाभ्यामेकमेव कर्तृत्वमुपस्थाप्यते । तत् नञर्थे सघटे विशेषणतयाऽन्वेतीति प्रथमया कर्तृत्वाभिधानं निराबाधमिति वाच्य म् प्रथमार्थाभावस्य प्रातिपदिकार्थेऽन्वयासम्भवाः प्रकृत्यर्थे प्रत्ययार्थाभावान्वयस्याभ्युत्पन्नत्वात् । न च तवाश्रयत्वस्वरूपकट त्वाभाव एव तिङ्प्रथमवोरर्थस्तस्य घटेऽन्वयः नञ्पदं तात्पर्यग्राहकमत एव तिङधन्वयिनि प्रथमान्तार्थे तिर्थसंख्यान्वयस्य व्युत्पन्नत्वाद् घटी घटा वा नास्तीति न प्रयोग इति वाच्यम् । तथासति कर्तृत्वस्यैकदेशतया तत्र धात्वर्षानन्वयप्रसङ्गात् । धावन्तिकत्वाभावस्य तिर्थत्वाभ्युपगमे तण्डुलं प्रचति नेत्यादौ धात्वर्थस्यैकदेशतया तत्र तण्डुलकर्मत्वानन्वयप्रसङ्गात् । धात्वर्थान्विततिर्थान्वयिनि तादशतिङर्थान्वितनञर्थान्वयिनि च प्रथमान्तार्थे तिर्थसंख्यान्त्रयस्य व्युत्पन्नत्वान्न घटो घटा वा नास्तीति प्रयोग इति । वस्तुतस्तु कर्तृस्वस्य तिर्थत्वमावश्यक
Aho ! Shrutgyanam