________________
प्रथमाविभक्तिविचारः । स्योपलक्षणवात् । न च भगवतो दशावताराः । मत्स्यः कूमर्मी वाराहो नरसिंहो वामनो रामो बलभद्रो बुद्धः कल्की चेत्यादिविभागवाक्ये आसोदस्ति भविष्यतीत्येकतमस्याध्याहारासम्भवात् केषां चिदवताराणामतीतत्वात् कस्य चिविद्यमानत्वात् कस्य चिद्भावित्वादिति वाच्यम् । उद्देशवाक्याथै विभागवाक्यार्थस्यान्वयविवक्षणे सन्तीध्याहारमम्भवात् । विभागवाक्यार्थे उद्देशवाक्यार्थस्यान्वयविवक्षगो तु अस्तिसन्तीत्येवाध्याहारसम्भवात् तवैकवचनान्तबहुवचन्तयोस्तिङन्तयोरुभयोरपि साधुत्वात्। न चातोतानागतयोः कथं वर्तमानसत्ताया मध्याहृततिङन्तार्थस्यान्वय इति वाच्यम् । वर्तमानत्वाविवक्षणेऽपि धात्वर्थेऽस्य सम्बन्धे विवक्षिते लटप्रयोगस्य साधुत्वात् । "वारिदः सुखमाप्नोति सुखमक्षय्यमन्नद"इत्यादिदर्शनात् । न च "हंसीव धवला कौति रित्यादी धवलपदाकोतिपदादध्याहृतास्तिपदार्थ स्वरूपभवनकर्तृत्वार्थिका प्रथमोत्पद्यतां हंसीपदाल्कथं सेति वाच्यम् । तनापौवनिपातार्थभवनकतत्वार्थकतया प्रथमाया उपपत्तेः । न चेवनिपातस्य कर्तत्वार्थकत्वोपगमे करणकमत्वार्थकत्वोपगमः स्यात् । तथा च "शरैरुरिवोदीच्यानुचरिष्यवसानिवे"त्यादा विवनिपातेन करण कर्मत्वा भिधानात् - तोयादितौयानुपपत्तिरिति वाच्यम् । दर्शितस्थले इव निपातस्य सादृश्यमानार्थकत्वात् करणकर्मत्वाद्यर्थकले मानाभावात् । उसै रसानित्यादौ समानलिङ्गवचनत्वेन साधुत्वार्थिका तृतीया हितीया । तेन उससदृशैःशरै रससदृशानुदीच्यानिति प्राथमिको बोधः ।