________________
+ विभक्त्यर्थनिर्णये ।
योग इति वाच्यम् । नञ्स्थलेऽन्वधितावच्छेदकावच्छि प्रतियोगिताकत्वस्यैव भेदे भानोपगमात् । नीलत्वाबछिन्नप्रतियोगिताकमेदस्य नीलेऽसत्वात् भवतु स्वरूप्रभेदाभावत्वस्य पदार्थतावच्छेदकतया तदवच्छिन्नप्रतियोगिताकभेदस्य नौले सत्वात्तथा प्रयोगो दुर्वार एवेति । यत्त तिनिपाताभिहितकारकः प्रथमार्थश्चैवः पचति तण्डुलः पच्यते छेत्तुं सांप्रतं वृक्ष इत्यादौ कर्तृत्वं कर्मत्वं प्रथमयाऽप्यभिधीयते। अत एव प्रातिपदिकार्थविशेष्यकतिङर्थान्वयबोधे प्रातिपदिकस्य प्रथमान्ततानियमः । तेन ब्राह्मणस्य पक्तृत्वसंप्रदानत्वोभयविवचायां पचति कर्ट - ब्राह्मणाय देहीति न प्रयोगः तिङा प्रथमया च arrated ता प्रतिपाद्यते । एकत्वेने कत्वसंख्येव । एवं प्रातिपदिकार्थविशेष्यक तिथे प्रकार कान्वयबोधे तिङ्जन्याया इव सुग्जन्याया अपि उपस्थिते: सहकारित्वमत एव चैवः पचत इति न प्रयोगः न वा पचति ब्राह्मणाय देहीत्यस्य शशानजापत्या वारणेऽपि पच्यति देवदत्ताय देहोत्यादि प्रयोगो दुर्वारः । चतुर्थ्यास्तिङकारकानभिधायित्वात् । न च चैत्रः सुन्दर इत्यादीन कारकार्थोपपत्तिरिति वाच्यम् । तत्राप्यध्याहृतास्त्रि क्रियाकर्तृत्वस्य प्रथमयाऽभिधानात् । "अस्तिर्भवति परः प्रथम पुरुष प्रयज्यमानोऽस्ती" ति कात्यायनस्मरणात् । न -च रामो रावणस्य कल्को नेच्छस्य हन्तेत्यादौ कथं क्रियापदाध्याहारः अस्तीत्व घस्यान्वे तुम योग्यत्त्वादिति वा च्यम् । अत्र वाक्य भेदस्यावश्यकत्वे श्रासीदिति रामोभविष्यतीति कल्किन्यध्याहारसम्भवात् भवतिपर इत्य
४१
Aho ! Shrutgyanam