________________
४०
प्रथमाविभक्तिविचारः। बङ्गाः कलिङ्गाः सुमाः पुङ्गा इत्यादौत्यर्थक"विशेषणानां चाजाते रि"त्यपरं सर्व तहिशेषणवाचिनां पदाना तहल्लिङ्गवचने स्यातां जातिवाचिपदं वर्जयित्वा तथा पञ्चाला रमणीया: जातौ तु पञ्चाला जनपद एवं गोदयोनिवासग्रामे गोदौ बहुचौरवृतौ जातौ तु गोदौ ग्राम इत्यर्थकं तदेतत्सूत्रहयं पूर्वाचार्याणामनूद्य"तदशिष्यं संज्ञाप्रमाणत्वादि"ति पाणिनिमुनिरसवयत् । तत्प्रकृतिनियतलिङ्गवचनत्वं लुप्ततहितकानां पञ्चालादिशब्दानां तविशेषणपदानां च विशेष्यतुल्य योगक्षेमं नियतलिङ्गवचनत्वं न शिष्यं न वक्तव्यम् | संज्ञा नियतव्यवहारस्तत्प्रमाणकत्वादिति सूत्रार्थस्तथा च यथा क्षत्रियविशेष प्रवर्तमानानां पञ्चालादिशब्दानां नियतपुल्लिङ्गबहुवचनत्वं व्यवहारेणैव तथा लुप्ततद्धितेऽपि व्यवहारस्तु लिङ्गवचनादिनियतोऽपि न लिङ्गवचनार्थक: किं तु साधुत्वार्थः । अत एव नियतस्त्रीलिङ्गबहुवचनत्वेनापशब्दस्य तविशेषणपदस्य च नियत पुल्लिङ्गबहुवचनत्वेन दारशब्दस्य तविशेषणपदस्य व्यवहारो लिङ्गवचनस्वरूपमथं विशेष्ये विशेषणे वा न तु कापि बोधयति यथाऽपो रसमय्यः रामस्य दाराः पुण्यमया इति विशेषणविभक्तीनां साधुलार्थतयोपपत्तौ निरर्थकत्वे तदनुपपत्तिन भवतीति पंदवाक्यरत्ना करे प्राहुः । युज्यते चा.. यमर्थः । स्वरूपभेदाभावस्य तद्व्यक्तिस्वरूपस्य प्रथमार्थत्वे नौलेऽपि यत्किञ्चिन्नौलव्यक्तिभेदसत्वान्नीलो न नौल इति प्रयोगः स्यात् । न च तवापि तादृशाभेदसंसर्गावच्छिन्नप्रतियोगिताकभेदस्य नौले सत्वात्कथं न तथाप्र
Aho ! Shrutgyanam