________________
विभक्त्यर्थनिर्णये ।
दिति वाच्यम् । कलय: कृष्ण इत्यादी व्यभिचारवारगार्थमव्यवहितोत्तरोत्पत्तिकत्वं जन्यतावच्छेदकेऽवश्यं प्रवेशनीयमत एव कर्मधारयस्थले व्यभिचाराप्रसक्तः । न च शिखी विनष्टः क्षुदुपहन्तुं शक्या सुरभिचन्दनमात्रातमित्यादौ विनष्टशक्याघ्रातानां तादात्म्यसंसर्गेण शिखिनि क्षुधि सुरभिचन्दने चान्वयो बाधित इति सा - मानाधिकरण्यानुपपत्तिरभेदस्य सुवर्थत्वपक्षे तस्य स्वाश्रयशिखावत्वेन स्वाश्रयोपहननवत्वेन स्वाश्रय सौरभवत्वेन खेन संसर्गेणान्वयसम्भवाद्भवति सामानाधिकरण्य मिति वाच्यम् । ततः परम्परा संसर्गावच्छिन्न शक्तिकर्मतावतोऽभिधानात् । क्षुधो न द्वितीया ताहशस्य कर्मणस्तादाम्य संसर्गेणान्वयः क्षुधि निष्पत्पूह एव । शिखाविशिष्टे विनष्टस्य सौरभविशिष्टेचन्दने आघातस्य च तादात्म्यसंसर्गेणान्वयः । शिखा सौरभं विशेषणमादाय पर्यवस्यति । अत्रैवार्थे "सविशेषणे ह विधिनिषेधौ सति विशेष्यबाधे विशेषणमुपसंक्रामत इति प्रमाणयन्ति तान्तिकाः । एवं युक्तयाऽभेदस्य विभक्त्यर्थे प्रतिहते अनुशासनमपि विभक्तीनां साधुत्व मार्च ज्ञापयति । तथा हि । " लुपि युक्तवद्यक्तिवचने " इत्येकं सूचं लुप्ते प्रत्यये प्रकृतिलिङ्गवचने प्रयोक्तव्ये न *तु लवण । यवागूरित्यादौ लवणादिपदवद्विशेष्यनिघ्नतया लिङ्गवचनान्तरप्रयोगः । यथा पञ्चाला नाम क्षत्रियाः नियतबजवचनान्तपुल्लिङ्गपञ्चालशब्दविषयास्तेषां नि वासे जनपदे प्रवृत्तस्य तहिताणो लुपि सति पञ्चाला जनपद इति तथा विदेहाः कुरवो मगधा मल्या अङ्गा
Aho ! Shrutgyanam
३९
-