________________
विभक्त्यर्थनिर्णये।
३७ प्रतियोगितावच्छेदकस्वरूप इति स्वरूपभेदाभावस्तन्नीलादिव्यक्तिस्वरूपी नौलपदादिप्रातिपदिकार्थो दर्शितरौत्या भवति प्रथमार्थ इति । न च भेदस्याभावः प्रतियोगी न सम्भवति तेन सममविरोधात् । किं तु प्रतियोगितावच्छेदकमिति वाच्यम् । प्रतियोगितावच्छेदकसंबन्धेनैव प्रतियोगिनोऽभावविरोधित्वात् । तस्यावाप्यविकलत्वात्तद्यक्तित्वस्वरूपतादात्म्येन संबन्धेन तहातीः प्रतियोगिन्या विरोधित्वात् । न च तद्यक्तित्वस्य धर्मविधया प्रतियोगिताया अवच्छेदकत्वं संसर्गविधयेति कथं तेन संबन्धेन विरोधिलमिति वाव्यम् । भेटे संसर्गविधया प्रतियोगिताया अवच्छेदकस्यैव धर्मविधया अवच्छेदकत्वात् । तादृशस्यैवावच्छेदकस्याभेदाभावत्वोपगमात् । तदभिसन्धानेन योग्यानुपलब्धिहेतुतावादे प्रत्यक्षालोके मिथै न हि यथा तादात्म्यमन्योन्याभावस्थाभावस्तथान्योन्याभावोऽपि तदभावरूप: घटाप्रतियोगित्वादित्युक्तभेदप्रतियोगितायाः संसर्गविधयावच्छेदकस्य तादात्म्यस्य धर्मविधयावच्छेदकात्मकान्योन्याभावविरहस्वरूपप्रदशनं संसर्गीभूतावाछेदकधर्मीभूतावच्छेदकयोरैक्यं विना नोपपद्यत इति । गुरुचरणास्तु भवतु स्वरूपभेदाभावस्तयक्तिस्वरूपस्तथापि स न प्रथमार्थी मानाभावात । घटो नौल इत्यादौ स्वरूपभेदाभावात्मकतादात्म्यसंसगेंगौव शाब्दबोधीपपत्तेः । न चाभेदस्य संसर्गत्वोपगमे स्वन्तनौलपदेन स्वन्तघटपदस्य पौर्वापयरूपाथास्ताङ्ग्याया
आकाङ्क्षायाः शाब्दप्रयोजकत्वे गौरवमधिकवर्णघटितत्वात् । अभेदस्य पदार्थत्वे नौलविशेषणकामेदविशेष्य
Aho! Shrutavanama