________________
प्रथमाविभक्तिविचारः। स्वरूपावच्छिन्नया प्रतियोगितया अत्यन्ताभावन्वेिति । यदि निरवच्छिन्नप्रतियोगितया नीलादेः प्रतियोगिनो भेदादौ भानं भेदविशेषणतया भासमानस्य नौलादे दव्यक्तिस्वरूपनिष्ठप्रतियोगितावच्छेदकताया अनवच्छेदकत्वं च न सांप्रदायिकमित्युच्यते तदा तूभयात्तित्वोपलक्षिलधर्मावच्छिन्नप्रतियोगिताकान्योन्याभावेऽत्यन्ताभावे च खण्डशशक्तिस्तदादिपदवत् स्मरणं खूपलक्षणोभयावृत्तित्वांशपरौहारेगा प्रातिपदिकोपस्थापिततत्तातित्वावच्छिन्नप्रतियोगिताकभेदत्वेन भेदविषयकमत्यन्तोभावत्वेनात्यन्ताभावविषयकं च भवति तब नौलादिपदार्थस्य तत्तयक्तित्वेऽन्वयः नौलान्विततादृशभेदत्वावच्छिन्नप्रतियोगितया भेदोऽत्यन्ताभावे ऽन्वेति तादृशात्यन्ताभावः समानविभक्तिकघटादिपदार्थेऽन्वेति । यदि नौलादेस्तद्यक्तित्वे पदार्थैकदेशान्वयो न व्युत्पत्तिसिद्ध इत्युच्यते । तदा उभयात्तित्वोपलक्षितधर्मावच्छिन्नप्रतियोगितायां भेदेऽत्यन्ताभावे च विषु सुविभक्तोः शक्तिस्ततोभयात्तित्वांशमपहायप्रातिपदिकोपस्थापितव्यक्तीयतद्यक्तित्वावच्छिन्नप्रतियोगितायाः स्मरणम् । तादृशप्रतियोगितायां नौलादेः प्रकृत्यर्थस्यान्वयः नौलाद्यन्विततादृशप्रतियोगिताया भेदेऽन्वयः तथाविधान्वितभेदत्वावच्छिन्नप्रतियोगितासंसगेंण भेदस्यात्यन्ताभावेऽन्वयस्तथाविधान्वितात्यन्ताभावस्य समानविभक्तिकधादिपदार्थेऽन्वयः । एवमीदृशभेदात्यन्ताभावः प्रतियोगिस्वरूप एव यत्न प्रतियोग्यननुगतस्तचैव सामान्यधर्मावच्छिन्नभेदस्यात्यन्ताभावः
Aho! Shrutgyanam ..
...