________________
विभक्त्यर्थनिर्णये।
३५ राजपदलक्षगायाः शाब्दिकानां कृतेश्च वैयध्येनाकल्पनापत्तेश्च । किं च चैत्र इत्यादी सुवर्थचैलव्यक्ती सुबर्थयो लिङ्गसंख्ययो भेदान्वयोऽवश्यमभ्युपेयस्तथासति रूपं घट इत्यादौ तन्तुपटावित्यादी रूपघटयोस्तन्तुपटयो. भेंदान्वयबोध: स्यात् । अथ प्रातिपदिकानां घटादिपदानां घटत्वेन सकल घटवाचकत्वेऽपि घटोऽस्तीत्यादावस्तित्वान्विततहटव्यक्तिबोधः प्रथमयेति चेत् न । घटपदेन घटोपस्थितावस्तिपदेनास्तित्वोपस्थितावबाधितत्वातहटव्यक्तीर्घटत्वेन शाब्दभानमन्भवात् तद्यक्तित्वेन भानस्याप्रामाणिकत्वादिति प्रातिपदिकार्थस्य न कथमपि प्रथमार्थत्वं सम्भवतीति चेत् । अवाहुः । घटो नील इत्यादौ विशेषणविभक्तो न्र्नीलपदोत्तरप्रथमाया अभेदोऽर्थः स घटादी विशेषणीभूयान्वेतीति । तबाभेदो यदि भेदत्वावच्छिन्नप्रतियोगिताकाभावत्वेनरूपणाधस्तदाऽप्रसिद्धिः । भेदत्वावच्छिन्नप्रतियोगिताकाभावाऽप्रसिद्धेः । यदि च भेदप्रतियोगिकाभावत्वेन तदा नौलभेदगगनोभयत्वावच्छिन्नाभाववति पौते नौलाभेदावगमप्रसङ्गः । यदि च नौलप्रतियोगिकभेदत्त्वावच्छिन्नाभावत्वेन तदा यत्किंचिन्नोलभेदवति नौले नीलाभेदानवगमप्रसङ्गः । यदि च नौलत्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नाभावत्वेन तदा शत्यानन्त्यम् । नौलादेः पदार्थैकदेशे नौलत्वावच्छिन्वप्रतियोगिताकभेदे ऽनन्वयप्रसङ्गः नौलपटतात्पर्यण प्रयुक्तस्य घटो नील इति वाक्यस्य प्रामाण्यप्रसंगश्च । तमाझेदो ऽत्यन्लाभावश्च वयमर्थस्तत्व भेदे नीलव्यतिः स्त्ररूपात्मिकया प्रतियोगितया भेदस्तु तवेदव्यक्तिी
Aho ! Shrutgyanam