________________
प्रथमाविभक्तिविचारः। तत्र सुऔजसिति त्वयः प्रत्ययाः प्रथमा । तदर्था अनुशासनसिद्धा अनुशासनं तु “प्रातिपदिकार्थलिङ्ग परिमोणवचनमाचे प्रथमे"ति प्रातिपदिकार्थः सत्ता व्यक्तिरिति यावत् लिङ्ग पुमान् खौ लौवं च परिमाणं गु
त्वं परिमितिश्च वचनमेकत्वं हित्वं बहुत्वं चैति । मावग्रहणां द्वितीयाद्यर्थकर्मत्वादिव्यवच्छेदार्थमिति । ननु रामो राजेत्यादौ व्यक्तोः प्रातिपदिकाप्रकृतित एव लाभात् कथं प्रथमार्थत्वम् । न चैकदानेकटत्तिरामत्वादिजातिवाचिनो रामादिशब्दान्न व्यक्तिलाभ इति व्यक्तिमानार्थं प्रथमायास्तदर्थकत्वमिति वाच्यम् । जातिशक्तिवादिनामपि मते जात्या व्यक्त्याक्षेपसम्भवेन व्यक्तेरन्यलध्यतया प्रत्ययार्थत्वाप्रसक्तः । अत एव तेषां तिडो भावनावाचित्वे भावनयाऽऽक्षेपेण कर्तुर्बोधने पचतीत्यादावनभिहिताधिकारीयटतीयाया न प्रसक्तिरिति । यत्तु घटाद्यर्थेषु सुपा शक्तिः घटादिपदानामनन्तानां शतले शततावच्छेदकानन्त्यसम्भवन सुपामेकविंशतिसंख्याकानां शक्ततावच्छह कला घवसन्भवेन तथात्वौचित्यादिति । तदपि न सम्यक् । घटादिपदानां निरर्थकत्वे प्रातिपदिकसंज्ञाविरहे तदनन्तरं सुबुत्पत्तेर प्रसक्तः दधि भवतीत्यादौ सुपो लोपात्तन दध्यादि पदार्थानवगमप्रसङ्गात् । न च तत्रानुसन्धीयते विभक्तिरिति सांप्रतम् । तथापि राजपुरुष इत्यादिसमासे राजपदार्थावगमस्याशक्यत्वात् । न चानाप्यनुसन्धीयते षष्ठौति वाच्यम् । तथा सति ऋवस्य राज़ इत्यादाविव सस्य राजपुरुष इत्यत्रापि - द्वादे राजान्वयप्रसङ्गात् । दर्शितसमासे नैयायिकानां
Aho! Shrutgyanam