________________
विभक्त्यर्थनिर्णये ।
३३
तमानातीतानामुत्पत्तीनां क्रमेण प्रत्यायक व कल्पनमफलमेवेति मन्तव्यम् । फलें तु आस्ते इत्यादौ रिफम्भूसंयोगानुकूलव्यापार आस्यर्थः । तत्र व्यापारस्याविद्यामानत्वेऽपि स्फिग्भूसंयोगफलस्य विद्यमानतायामास्तइति प्रयोगाद्दर्तमानकाल आधेयत्वेन स्फिग्भूतसंयोगे फलेवेति । एवं जागर्तीत्यादौ मिद्दामनोविभागानुकूलोव्यापारो धात्वर्यस्तवापि मिहामनोविभागरूपफले वर्तमानकालस्थान्वयः । एवं दण्डं दधातीत्यादौ धारणास्थसंयोगानुकूलव्यापारी धात्वर्थः तत्रापि वर्तमानकालस्य धारणाख्यसंयोगरूपफलेऽन्वयः । अत्रासिष्यते जागरिष्यति दण्डं धास्यतीत्यादावनागतकालः खदृत्तिध्वंप्रतियोग्यत्तित्वेन खाधेयत्वेन चोभाभ्यां संबन्धाभ्यां फलेऽन्वेतीति फलस्य विद्यमानतायां न तथाप्रयोगः । एवमास्त अजागरत् दण्डमधादित्यादावतीतकालः खध्वंमाधिकरणवत्तित्वेन स्वाधेयत्वेन चोभाभ्यां संबन्धाभ्यां फलेऽन्वेतीति फलस्य विद्यमानतायां न तथाप्रयोगः । यदि चासेः स्फिग्भूसंयोग एवार्थ उपविशेः स तदनुकूलव्यापारश्चार्थ उपविशतीत्यत्र वर्तमानकालस्य व्यापार एवान्वयः । श्रस्ते इत्यत्र स्फिग्भ संयोगस्वरूपव्यापार एव वर्तमानकालस्यान्वयः । एवं नागतैरपि मिद्दामनोविभागस्वरूपव्यापार एवार्थः तचैव कालस्यान्वय इति विभाव्यते तदापि दण्डं दधातीत्यादौ फले कालस्यान्वयोनिष्प्रत्यूह एवेति दिक् ॥
कर्तृत्वादयस्तिङर्थाः सुबर्था अपीति न पृथक् तन्यन्ते । सुबस्तु सुपां क्रमेणैव निरूपणीया इति क्रमेण सुपस्तदर्थाश्च निरूप्यन्ते ।
Aho ! Shrutgyanam