________________
२४
कारकसामान्यविचारः। संख्यान्वयायोग्यत्वस्यैव बोजत्वेन प्रदर्शनीयत्वात् । अत एव पचतोत्यादौ टतीयाप्रसङ्गवारणाय कर्ट संख्यानभिः धानं हतीयाप्रयोजकमित्याख्यातवादे दीधितिकनिः प्रमाणीकृतमिति । इत्थं च संख्यावाचकत्वं शतादिशब्देऽतिव्याप्तमिति प्रत्ययत्वमुपातम् । ननु प्रत्ययत्वं दुर्निरूपमिति विभक्तित्वं दुर्निरूपमेव । तथा हि । प्रत्ययत्वं न तावत्पदार्थान्वितस्वार्थकत्वं नामधात्वादावतिव्याप्तेः । नापि पूर्वपदार्थान्वितस्वार्थकत्वम् । राजपुरुष इत्यादिसमासेऽतिव्याप्ते: अत एव पूर्वपदार्थान्वितप्रधानीभूतस्वार्थकत्वमिति परास्तम् । यत्त शब्दान्तरार्थाविशेषिते यादृशे स्वार्थ धर्मिणि विङर्थस्यान्वयबोधने स्वरूपायोग्यः स निभतुल्यसदृशप्रतियोग्यनुयोग्यधिकरणाधेयादिशब्देश्यो निपातेभ्यश्च भिन्नः शब्दस्तादृशाथै प्रत्यय इति कतद्धितादीनां स्वार्थे तिर्थान्वयस्वरूपयोग्यत्वात्तेष्वव्याप्तिरिति शब्दान्तरार्थाविशेषितत्वं स्वार्थस्य विशेषणं तस्या अङ्गकमित्यादी कादिप्रत्ययस्य कमस्तीत्यादौ शिरःप्रभृतिस्वार्थ तिर्थान्वयस्वरूपयोग्यत्वात् तत्राव्याप्तिरिति यादृशत्वं विशेषणम् । तेन कादिप्रत्ययस्याल्पादिस्वरूपस्वार्थे तिर्थान्वयस्वरूपयोग्यत्वान्न तवातिव्याप्तिरिति । अस्तीन्द्राणीत्यादाविन्द्र शब्दार्थाविशेषिते डोवर्थे स्त्रियां तिर्थान्वयस्वरूपायोग्ये श्रानुगागमेऽतिव्याप्तिरिति स्वार्थ इत्यतम् । प्रत्ययमावस्य स्वार्थ प्रकृत्यर्थान्वयस्वरूपयोग्यादसम्भवः स्यादिति तिर्थः स्येत्युक्तम् । चन्द्रनिभोऽस्तीत्यादौ निभादिशब्दानां पूर्वपदार्थचन्द्राद्यविशेषिते स्वार्थे सदृशादी तिर्थान्वयस्व
Ahol Shrutgyanam