________________
कारकसामान्यविचारः। त्यस्वरूपविशिष्टस्य तदितान्तवाक्यार्थस्याप्रत्ययार्थतया तत्व सुन्दरतादात्म्यात्वयस्य निष्प्रत्यूहत्वात् । तद्धितार्थ केवलापत्ये सुन्दरतादात्म्यान्वयस्य केनाप्यनभ्युपगमात् न चैवं तगडुलमोदनस्ये त्यादौ तण्डुलकर्मत्वे वाक्यार्थे श्रोदनादेरन्वयः स्यादिति वाच्यम् । प्रकृत्यर्थविशेषितप्रत्यथार्थस्वरूपवाक्यार्थस्य विशेष्यतथाऽन्वये कृत्तद्धितान्तर्थस्यैव प्रयोजकत्वात् । तण्डुलकर्मत्वादिरूपवाक्यार्थ स्य विशेषतयाऽन्वये धात्वर्थस्य प्रयोजकत्वात्तण्डुलमोदनस्येत्या दावोदनादेरन्वयासम्भवात् । यत्र प्रकृत्यर्थस्य प्रत्ययार्थे नान्वययोग्यता पारिमाण्डल्यादौ तत्र नञसमभिव्याहारेऽन्वयबोधस्य प्रामाणिकत्वे तु तवैव प्रकत्यर्थविशेषितनञर्थस्याप्रकृत्यर्थस्य प्रकृतिलक्ष्यस्य वान्वय. । इति वच्यते । एतेन प्रथमोक्तपदार्थस्यैवोद्देश्य त्वं भवति"यच्छब्दयोगः प्राथम्यं भवेदुद्देश्य लक्षणमिति व्युत्पतेरत एव'न्यक्कारो द्ययमेव मे"इत्यादाबविमृष्टविधेयांशकत्वं दोषमाचक्षते काव्यविदः । तथा च तगडुलमित्यादौ तगडलीया कमतेति बोधे तगडलस्य विधेयत्वं न भवति । किं तु पर्वते बद्भिरित्यादौ विशेषणीभूतपर्वता देरिव तण्डुलस्योद्देश्यत्वमेव । तथा च प्रकृत्यर्थोद्देश्यतानिरूपितसुबर्थविधेयताकशाबदजनकशबदत्वं विभतित्वमिति परास्तम् । तद्धितादिप्रकृत्यर्थस्योद्देश्यतया ऽन्वये बाधकाभावात् । तद्धितादावतिव्याप्तिरिति चेत्।। उच्यते । मंख्यावाचकप्रत्ययत्वं विभक्तित्वमिति प्रत्ययत्वमात्रोक्तो कुत्तहितादावतिव्याप्तिरिति संख्यावाचकत्वमुक्तम् । यद्यपि संख्यात्वविशिष्टस्य वाचकत्वं न विभ
Ahol Shruteranam