________________
कारकसामान्यविचारः ।
दासमभिव्याहृतधातुजन्योपस्थितेर्हेतुत्वम् । तेन घटादिपदेन पाकोपस्थितावपि न तथाशाब्दबोधः । न वा प चनौ स्थाल्यामित्यादौ सप्तम्यर्थाधियत्वस्य धात्वर्थऽन्वयवोधः । भवति च स्थाल्यां पचति पच्यते पाक इत्यादी तथाशाब्दबोधः । एवं कारकलक्षणे समुपपन्ने कर्तृत्वादोनां धात्वर्थविशेष्यकनिरुक्त सुबज्ञानजन्योपस्थितिप्रकारौभवद्धर्मावच्छिन्नप्रकारताकशाब्दकालावच्छेदेनैव का - रकत्वं यथा धूमादीनां व्याप्तिपचधर्मताज्ञानकालावच्छेदेनैव वह्निगमकत्वस्वरूपं वह्निलिङ्गत्वमिति । इत्थं च क्रियान्वयित्वमित्यपि प्राचीनलक्षणं संगच्छते । तथा हि । अन्वयित्वमात्रोक्तौ नामार्थान्वयिनि षष्ठ्यर्थशेषादावतिव्याप्तिस्तद्दारणार्थमुपातेऽपि क्रियापदे कान्तस्य वस्वतीत्यादौ सा तदवस्थैवेति क्रियामात्रान्वयित्व त द्वाच्यम् । तदर्थस्तु धातुं विना स्वविशेषणताकान्वयबो - / धाजनक सुबर्थत्वमिति तिर्थस्य कारकत्वमते सुप्पदस्थाने विभक्तिपदं बोध्यमिति विभक्तिज्ञानजन्योपस्थितिविषयो विभक्त्यर्थंस्तत्र तादृशोपस्थितौ निरुक्तान्वयबोधस्याजनकत्वमनुपधानं बोध्यमिति । एवं धातुं विना स्व विशेषणता कान्त्रयबोधानुपहितस्य विभक्तिज्ञानजन्योपस्थिति सामान्यस्य विषयः नामार्थान्वययोग्यः कारकइति । अत्र स्वविशेषणतायां सुपपदस्थाने विभक्तिपर्द प्रक्षिप्य पूर्वोक्त विशेषणं बोध्यमिति षष्ठ्यर्थशेषेऽतिव्याशिवारणायानुपहितस्येत्यन्तं सामान्यविशेषणं तवाप्यसम्भववारणाय धातुं विनेत्युक्तं कान्तस्य वस्यतोयादौ षष्ठार्थशेषेऽतिव्याप्तिवारणाय सामान्यपदमिति । इष्टसा
!
१८
Aho Shrutgyanam