________________
विभक्त्यर्थनिर्णये ।
तु तथा शाब्दबोधः । चोराद्विभेतीत्यादी हेतुतासामान्यविलक्षणस्य भयहेतुत्वस्य पञ्चम्यर्थस्य बिभेत्याद्यर्थ एवान्वयात् । चौराइनलाभ इत्यादावनन्वयात् न भयहेतुत्वेऽव्याप्तिशङ्का "भौवार्थानां भयहेतुरि" ति सूचे भयपदोपादानमेतदर्थमेवेत्यादिकं वच्यते । अब कृत्तद्दितयोरपादानबोधकत्वं न दृश्यते समासे तु चौरभीत इत्यादौ चौरपदस्य चौरभीते लक्षणा भौतशब्दस्य तात्पर्यग्राहकत्त्वम् । तथा च धातुजन्योपस्थितिविरहात्पञ्चम्यर्थान्वयसम्भवादपादानबोधकपदासमभिव्याहृतत्वम् धातोर्न विशेषणं न्यायमते प्रयोजनविरहादिति । शाब्दिकमते कृत्तद्धितसमासेषु वृत्तिखौकारात् धातुजन्योपस्थितिसम्भवाञ्च तद्विशेषणमेव । यदि च व्याघ्र इति विभेति भेत्तुं सांप्रतं व्याघ्र इत्यादिप्रयोगानुरोधात् निपातोभयापादानमभिधत्ते तदा न्यायमतेऽपि तद्विशेषणं बोध्यमिति । एवं चतुर्थ्यर्थ खत्वनिरूपकत्वादिप्रकारतानिरूपित विशेष्यता संबन्धेन शाब्दं प्रति संप्रदानबोधकपदासमभित्र्याहृतमप्रत्ययधातुजन्योपस्थिते विशेष्यता संबवेन हेतुत्वं तेन घटादिपदेन लचणया दानोपस्थितावपि न तथाशाब्दबोधः । न वा दानीयो ब्राह्मणायेत्यादौ चतुर्थ्यर्थ संप्रदानत्वस्य धात्वर्थेऽन्वयबोधः । भवति च ब्राह्मगाय ददाति यते दानमित्यादौ तथाशाब्दबोधः । एवं सप्तम्यर्थस्य कर्तृकर्मान्यतरघटितपरम्परासंबन्धावच्छिन्नाधेयत्वस्य प्रकारतया ऽऽधेयत्वसामान्यस्य निरुक्तसंबन्वावच्छिन्नप्रकारतया वा निरूपितं यद्विशेष्यत्वं तेन संबन्धेन शाब्दं प्रति विशेष्यतासंबन्धेनाधिकरणबोधकप
Aho ! Shrutgyanam
१७
-