________________
सप्तमीविभक्तिविचारः। च्यम् । अधिकरणत्वादावपि तुल्यत्वात् यदि चाधिकरणत्वादेर्नानासंसर्गावच्छिन्नाधेयत्वेन संबन्धेनान्वय इति मन्यते तदाऽऽधेयत्वमेव सप्तम्यर्थस्तस्य कर्ट घटितपरम्परावच्छिन्नाधेयत्वीय स्वरूपेण संबन्धेनान्वय इति नानुपपत्तिः वृत्त्य नियामकसंबन्धस्य प्रतियोगिताऽनवकेदकत्वमतेऽधिकरणत्वादेः सप्तम्यर्थत्वं न युज्यते गेहे न पचति पत्ता वेत्यादौ निषेधप्रतीत्यनुपपत्तरित्यादिकं हितीयोविवरणे दर्शितम । फलव्यापारयोः खाश्रयसंबन्धावच्छिन्नाधेयत्वस्य सप्तम्यर्थस्यान्वयोऽभ्युपेयते खाश्रयसंबन्धस्तु व चित्संयोगः यथा कट पास्ते चैव इत्यादौ क संयोगः स्वाल्यामोदनं पचतीत्यादौ कर्मसंयोगः क चित्ममवायः यथा घटे रूपमस्तोत्यादौ कटं समवायः असुमिन् गां विक्रीणीत इत्यादौ कर्मगो गो: स्वामित्वं तथा घटे नौलरूपं करोतीत्यादौ कर्मसमवायः क चित्कालिकषिशेषणता यथा पौर्णमास्यां चन्द्र ग्रसते राहुरित्यादौ कट कर्मणोः कालिकविशेषणता यथा क चिद् विषयता इच्छा मोक्षेऽस्तीत्यादौ कर्ट विषयता घटे चाक्षुषं जनयति सूते वा चक्षुष्मानित्यादौ कर्मविषयता क चिदन्यादृशोऽपि स्वाश्रयसंबन्धः प्रयोगानुसाराबोध्य: । अपादानादेः फलव्यापारयोरनधिकरणत्वात्तदधिकरणनिरूपितस्य दर्शितसं. बन्धावच्छिन्नाधेयत्वस्याप्रसिद्ध रपादानाद्यधिकरणस्य म कारकत्वमित्यतः क कर्मणोरेवाधिकरणयोः कारकत्वमाचार्या मन्यन्ते । गुरुचरणास्तु कटे आस्ते चैत्र इत्यादी संयोगावच्छिन्नमाधेयत्वं कट निष्ठ स्थाल्या
Aho ! Shrutgyanam